SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १ प्रथमः खण्डः] कौपीतक्युपनिषत् । ११५-२ · चित्रश्चित्रनामकः कश्चित्रैवर्णिकः । ह किल वै प्रसिद्धः, श्रुतेस्तत्कालीनानां च । गौर्यस्य युवापत्यं गार्यायणिः । यक्ष्यमाणः कंचिज्ज्योतिष्टोमादिकं यागं करिप्यमाणः । आरुणिमरुणस्यापत्यं वने सदस्यसप्तदशान्यतमऋत्विक्त्वेन करणं चक्रे, त्वं मे प्रधानभूतो यज्ञे याजयिता भवेति । स गाायणिना चित्रेण वृत आरुणिः । ह प्रसिद्धः श्रुत्यन्तर उद्दालकनामा । पुत्रं पितरं पाप्मनः पुनाम्नो नरकात्रायत इत्यौरसस्तनय इत्यर्थः । ते श्वेतकेतु श्वेतकेतुनामानं प्रजिघाय प्रहितवान् । तत्प्रेषणमाह-याजय हे श्वेतकेतो चित्रं यागं कारय । इति, अनेन प्रकारेण । तं चित्रगृहमा पतं पित्रा प्रहितं श्वेतकेतुं ह प्रसिद्धम् । श्रुत्यन्तरे । अभिमानिनं प्रवाहणादिभिः संवादकर्तारमासीनं चित्रदत्ते महत्यासन उपविष्टम् । पप्रच्छ प्रश्नं कृतवान् । चित्रः प्रश्नमाह-गौतमस्य पुत्र हे गौतमगोत्रीयस्यौरस । अस्ति विद्यते संहृतं सम्यगावृतं गुप्त स्थानं बहिर्मुखैरजातमावृत्तिशून्यमित्यर्थः । लोकेऽस्मिन्स्थिरजङ्गमनिवासे यस्मिन्संवृते स्थाने मा मा प्रष्टारं शिष्यभूतं धास्यसि त्वं याजयिता गुरुर्भूत्वा स्थापयिष्यसि तत्राप्यन्यं सर्वस्माज्जगतो भिन्नमुत सर्वजगदात्मभूतं मां धास्यसीत्येकः पक्षो बहिरेवावगन्तव्यः । अहो संबोधने । अन्यत्वपक्षे दोषं दर्शयितुं धारणे गतिमाह-चावा बद्ध्वा काष्ठेनेव काष्ठं निःसंधिबन्धनं जतुरज्जुलोहादिभिरिव बद्ध्वाऽन्य मां धास्यसीत्यन्वयः । अन्यशब्दोऽयं तन्त्रेणोच्चारितो लिङ्गव्यत्यासेनावगन्तव्यः । ततोऽस्ति संवृतं स्थानमन्यद्वा । अन्यस्थानपक्ष आह-तस्य तस्मिन्नसंवृते स्थाने मा मां राज्यादिवन्तं कंचित्कालं परतन्त्रफलभोक्तारमुक्तम् । लोके धास्यसि, व्याख्यातम् । इत्यनेन प्रकारेण बुद्धिपरीक्षार्थ पितुः सपुत्रस्याभिमानपरिहारार्थ वा राना पप्रच्छे. त्यन्वयः। स होवाच नाहमेतद्वेद हन्ताऽऽचार्य पृच्छानीति स ह पितरमासाद्य पप्रच्छेतीति माऽमाक्षीत्कथं प्रतिबवाणीति स होवाचाहमप्येतन वेद सदस्येव वयं स्वाध्या यमधीत्य हरामहे यन्नः परे ददत्येाभौ गमिष्याव इति । स गौतमपुत्रः श्वेतकेतुश्चित्रपृष्टः । ह प्रसिद्धः । उवाचोक्तवान् । श्वेतकेतूक्ति. माह–नाहमेतद्वेद । अहं श्वेतकेतुरेतत्त्वदुक्तं लोके संवृतमसंवृतं वा स्थानं त्वमाधेयम * च. पुस्तके सर्वत्र गार्यायणिस्थाने गाङ्ग्यायनिरिति वर्तते। १च. गाङ्गयायनिर्गाझ्यस्य युवापत्यं गाङ्ग्यायनिः । य । २ घ. यनिः । य । ३ घ. 'जिगाय । ४ च. 'रं त्वच्छिष्य । ५ घ. तोऽस्य सं । ६ घ. राज्यव । ७ च. °यः । अन्यमहो वाध्वा तस्येति पाठे व्याख्येयम् । अन्यतमो वाऽध्वा तस्येति पाठे धूमार्चिषोरन्यतमो वाऽध्वा मार्ग. स्तस्य संबन्धिनि लोक इत्यर्थः । स । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy