SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-१ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेअथ शंकरानन्दव्याख्योपेतकौषीतक्युपनिषदारम्भः । आनन्द आत्मा स्थिरज मानामस्त्यत्र चित्रस्तमहं प्रणम्य । कौषीतकिब्राह्मणमा(गा)त्मविद्यां पदावलोकात्प्रकटी करोमि ॥ १ ॥ समधिगतमेतन्निघर्षणादीनां कर्मणां तैनसस्य द्रव्यस्याऽऽदर्शादेः शृद्धिहेतुत्वम् | तथा चाग्निहोत्रादीन्यश्वमेधान्तानि कर्माणि तैनसस्यान्तःकरणस्य शुद्धिहेतवो विवि. दिषासाधनत्वस्य श्रुतितोऽप्यवगमाच्च । अपि च स्वर्गादेः कर्मफलस्य सुखविशेषरूपत्वात्तस्य चान्तःकरणप्रसादापरपर्यायत्वात्कार्मभिरपि कर्मणामन्तःकरणशुद्धिहेतुत्वमङ्गीकृतं यतस्ततस्तानि महता संदर्भेण प्रथमतोऽभिधायेदानी ब्रह्मविद्यां वक्तुं लब्धावसरा श्रुतिः प्रववृते । तत्र चित्रो ह वै गार्यायणिरित्यादिका य एवं वेदेत्यन्ता चतुरध्यायी कौषीतकिब्राह्मणोपनिषत् । आयेनाध्यायेन पर्यविद्यां सदक्षिणोत्तरमार्गान्तां द्वितीयेन प्राणविद्यां तद्विदश्च बाह्याध्यात्मिकानि कर्माणि फलविशेषसिद्धये तृतीयचतुर्थाभ्यां चाऽऽत्मविद्यामाह । यद्यपि प्रतर्दनो हेत्यादिकमेव प्रथमतः पठनीयं तथाऽपि शुद्धमप्यन्तःकरणं निर्गुणे ब्रह्मण्यमयेऽपि प्रथमतो ब्रह्मस्वभावमजानद्भयमा. मुयात् । गर्भस्थप्रोषितपितृको युवेव सवृत्तस्थः प्रथमतः पितृदर्शने । ततोऽस्य भयनिरासार्थमुत्तरमार्गाप्यमेतल्लोकस्थराजादिवब्रह्मलोकस्थं सगुणं ब्रह्म प्रथमत उक्तवती । तत्र च स आगच्छत्यमितौजसं पर्यङ्कम् । स प्राण इति प्राणस्य पर्यङ्कत्वं प्रथमेऽध्याय उक्तम् । तस्मिन्प्राणे भवति श्रोतॄणां जिज्ञासा किमयं श्वासमात्रः प्राण आहोस्विद्विविधभूतिजुष्ट इति । अस्या जिज्ञासाया निवृत्त्यर्थं प्राणोपासनं द्वितीयेनाध्यायेनोपक्रान्तम् । तथा च लब्धावसरोत्तरत्र ब्रह्मविद्यामुक्तवतीत्यदोषः । तत्र ब्रह्मविद्यायाः सगुणाया अपि महद्भिौतमश्वेतकेत्वादिभिरप्यमानित्वादिगुणैर्गुरुमुखादेवावगतिः कृता यतस्ततोऽमानित्वादिगुणैराधुनिकैरप्यधिकारिभिः सगुणा निर्गुणा च ब्रह्मविद्याऽवगन्तव्येत्येतदर्थमाख्यायिका चित्रो ह वै गोर्यायणिर्यक्ष्यमाण आरुणि वने स ह पुत्रं श्वेतकेतुं प्रजिघाय याजयेति तं हाऽऽसीन* पप्रच्छ गौतमस्य पुत्रास्ति संवृतं लोके यस्मिन्मा धास्यस्यन्यमुताहो वाध्वा तस्य मा लोके धास्यसीति । * अभ्यागतमिति पाठः। १ घ. 'हेतनि वि। २ घ. लसु । ३ च. गाङ्ग्यायनिरि । ४ घ. यनिरि' । ५ च. माझ्यायनिर्य। ६ घ. 'यनिर्य' । ७ घ. 'जिगाय । ८ च, 'न्यतमो वाऽध्वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy