SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः । "कौषीतक्युपनिषत् । शंकरानन्दविरचितदीपिकासमेता । तत्राssaौ कौषीतक्युपनिषच्छान्तिर्व्याख्यासमेता । वा मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविराविर्मर्यो ऽभूर्वेदसा मत्साऽऽणीर्ऋतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यन इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मत्रप तिभ्यो नमो वोsस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि । अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः ॥ १ ॥ वा मदीया मनसि प्रतिष्ठिताऽस्तु । मनो मे वाचि प्रतिष्ठितमस्तु । अग्रे दीक्ष इति संबोधनम् । दीक्षा सरस्वती वाग्दीक्षेति व्यवहारात् । सुमृळीका सरस्वती चास्तु | तथा सति सरस्वतीं वाग्देवीं प्रति वचनम् । मूर्तिश्रुतौ मर्यो मूर्तिमती शरीरिणी वेदसा ज्ञानेन लक्षिता त्वमाविराविरभूः "एत इति वै प्रजापतिर्देवानसृजत | असृग्रमिति मनुप्यान्” इति वेदपदैर्देवादिसृष्टिवचनादधिष्ठात्री सरस्वती मूर्तिश्रुतावाविर्भूतेत्युक्तम्ं । अनन्तरं मदिति मत्तः सकाशात्सा त्वमाणीः । अग शब्दे लुड् । शब्दात्मिका विस्तृताऽभूः । अत ऋतं मा मा हिंसीः । अनेन वक्ष्यमाणेनाधीतेनाहोरात्रात्संवसामि | एकीभावेन वसामि । अग्न्यादीन्नमस्यति । इळाशब्दः कृत्स्नार्थः । अग्ने प्रकृष्टं नम ऋषिभ्यो देवेभ्यश्च नमोऽस्तु । सरस्वती सुखा भव । तेन च व्योम शून्यं मा संदृशि । लुङ्खाऽऽत्मनेपद इति सिजलुकि रूपम् ( ? ) | यथा सूर्यो ज्योतिषां श्रेष्ठशे नान्यथा क्रियते तथा मनोऽदब्धं निर्मलं चक्षुरिषिरमिष्टदर्शि दीक्षे मा मा हिंसीर्मा - न्यथा कुरु ॥ १ ॥ I इति व्याख्योपेता शान्तिः समाप्ता । * अस्या उपनिषदः “प्रतर्दनो ह०" इत्यारभ्यान्तिमाध्यायद्वयमेव पूर्वे मुद्रित नासीत्, अनन्तरमादिमाध्यायद्वयमुपलब्धमतस्तदप्यत्र मुद्रयित्वा संगृहीतमतो हेतोरित आरभ्य पृष्ठाङ्काः ( ११४- १ ) इत्यादिरूपाः संस्थापिताः । १५ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy