SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ नारायणशंकरानन्दविरचितदीपिकासमेता कैवल्योपनिषत् ।। पठति यथाशक्ति नित्यम् । स शतरुद्रीयाध्यायकः । अग्निपूतोऽग्निभिः श्रौतैः स्मातेः पवित्रीकृतोऽग्निपूतः। भवति स्पष्टम् । सुरापानान्मदिरापानान्महापातकदोषात् । पूतो भवति । स्पष्टम् । ब्रह्महत्याद्ब्रह्महत्याया ब्रह्महत्यारूपान्महापातकदोषात् । पूतो भवति। स्पष्टम् । कृत्याकृत्यात्कृत्यं करणीयं बुद्धिपूर्वकं पापं कृत्यं चाकृत्यं च कृत्याकृत्यं तस्मात्पूतो भवति । स्पष्टम् । तस्माच्छतरुद्रीयाध्ययनात् । अविमुक्तं विरुद्धत्वेन मुक्ता विमुक्ताः पशवस्तेभ्यो व्यतिरिक्तोऽविमुक्तः पशुपतिस्तम् । आश्रितो भवति । स्पष्टम् । अत्याश्रमी, अत्याश्रम उक्तः पारमहंस्यलक्षणो यस्यास्ति सोऽत्याश्रमी। सर्वदा निरन्तरम् । सकृद्वा [जपेत] कदाचिद्वा दिवसे दिवस एकवारमित्यर्थः । वाशब्दोऽधिकारिसामर्थ्यानुसारेण व्यवस्थितविकल्पार्थः । अनेनेति । अनेन रुद्राध्यायनपेन । ज्ञानमहं ब्रह्मास्मीतिसाक्षात्काररूपम् । आमोति प्राप्नोति । संसारार्णवनाशनं संसारसागरशोषणम् । यस्माद्रुद्राध्यायनपोऽशेषपापनिबर्हणद्वारा ब्रह्मज्ञानहेतुस्तस्माततः । एवं विदित्वोक्तेन प्रकारेण त्रिनेत्रध्यानरुद्राध्यायाध्ययनादिना विदित्वा साक्षात्कृत्य । एनं परमात्मानम् । कैवल्यं केवलस्याऽऽत्मनो भावः कैवल्यं तत् । फलं पुरुषाभिलाषविषयं सर्वपुरुषार्थसमाप्तिभूतम् । अश्नुते प्राप्नोति । कैवल्यं फलमभुत इति । व्याख्यातम् । पदाम्यास उपनिषदर्थसमाप्त्यर्थः ॥ १ ॥ इति द्वितीयः खण्डः ॥ २॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दभगवता कृता कैवल्योपनिषद्दीपिका समाप्ता ॥ ११॥ - For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy