________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-३ शंकरानन्दविरचितदीपिकासमेता- [१ प्रथमाध्यायेन्यत्वेनानन्यत्वेन वा बद्ध्वाऽवद्ध्वा वेति न जानामि । हन्त हर्षसंबोधने त्वत्प्रश्ननिमित्तं ममाप्येतदवगतं भविष्यतीत्यर्थः । आचार्य सर्वज्ञं सर्वशास्त्रार्थस्य ज्ञातारमनुष्ठातारमाचारे स्थापयितारं च पितरं पृच्छानि प्रश्नं करवाणि । पितुर्गमनात्पूर्वं विस्मृतिर्मा मूत्तत्र गत्वा प्रश्नं करिष्यामीत्यर्थः । इत्यनेन प्रकारेणोवाचेत्यन्वयः । स चित्रदेयोत्तरः श्वेतकेतुः । ह प्रसिद्धः पितरमाचार्यमारुणि जनकमासाद्य संप्राप्य । पप्रच्छेति, अनेन वक्ष्यमाणेन प्रकारेण प्रश्नं कृतवान् । तत्प्रश्नप्रकारमाह-इति माऽमाक्षीन्मां श्वेतकेतुं गौतमस्येत्यादिना धास्यसीत्यन्तेन वाक्येन प्रश्नमकरोत् । कथं प्रतिब्रवाणीत्यस्य प्रश्नस्य केन प्रकारेण प्रत्युत्तरं वदामीत्यनेन प्रकारेण पप्रच्छेत्यन्वयः। स पुत्रपृष्ट आरुणिः । ह प्रसिद्धः । उवाच, उक्तवान् । अहमप्येतन्न वेदाऽऽचार्योs. प्यहमारुणिरेतच्चित्रपृष्टं न जानामि । सदस्येव चित्रस्य गाायणेः सभायामेव न त्वन्यत्र वयमारुणिश्वेतकेतुप्रभृतयः । स्वाध्यायमधीत्यैतदर्थप्रतिपादकं वेदभागं सार्थमधिगम्य चित्राद्वाायणेः । हरामहेऽधिगच्छामः । यद्यस्मात्कारणान्नोऽस्मभ्यं गौतमादिभ्योऽपरिहार्येभ्योऽव्यर्थोपक्रमेभ्यो याचकेभ्यः परे विद्याधनदातारो ददति प्रयच्छन्ति तच्चित्रो न दास्यतीति शङ्का न करणीयेत्यर्थः । एह्यागच्छ चित्रं प्रत्युभो गमिष्याव आवां यास्यावः । इत्यनेन प्रकारेणोवाचेत्यन्वयः ।
स ह समित्पाणिश्चित्रं गार्यायणिं प्रतिचक्रम उपायानीति तं होवाच ब्रह्मार्थोऽसि गौतम यो न मानमुपागा एहि व्येव त्वों ज्ञपयिष्यामीति ॥ १॥ स आरुणिः । ह प्रसिद्धः । समित्पाणिर्गुरुदर्शनार्थ समिद्धस्तः । चित्रं चित्रनामानं गाायणि गार्यस्य युवापत्यं प्रतिचक्रम उपायानीति त्वां विशिष्टविद्याविदं चित्रं गुरुत्वेनोपागच्छामि प्राप्तोऽस्मीत्यनेन प्रकारेण प्रतिचक्रमे प्रतिचक्राम समीपं गतवान् । तं शिष्यत्वेनाऽऽत्मानं प्राप्तमारुणिं ह प्रसिद्धमुवाचोक्तवान् । चित्रोक्तिमाह-ब्रह्मार्यों ब्रह्मणो हिरण्यगर्भस्य परस्य ब्रह्मणो वाँऽ|यं पूजेति यावत् । तद्यस्य स ब्रीं? ब्रह्मवन्माननीय इत्यर्थः । असि भवसि । गौतम हे गौतमगोत्रीय । तत्र कारणमाह-यो वेदविदामग्रणीमद्गुरुभूतो याजकः सन्मया पुत्रद्वारेण पृष्टो न मानमुपागा मां शिष्यभूतं प्रष्टुं समागतो भवान्न तु किमनेन शिष्यभूतेन पृष्टेनेत्यभिमानं गतवान् । एह्यागच्छ व्येव त्वा ज्ञपयिष्यामि त्वां गौतमं विज्ञापयिष्याम्येव
१ घ. च. 'न्तेनेत्यनेन वा । २ च. मीत्यर्थः । इत्य। ३ घ. ब्रह्माोऽसि । च. ब्रह्मग्राह्यसि। ४ क. त्वा ज्ञाप' ५ च. 'णिः सपुत्रः । ह । ६ घ. 'झा) । ७ घ. वाऽईः । अर्हः पू। ८ घ. हार्यो ।
For Private And Personal