SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११० नारायणशंकरानन्दविरचितदीपिकाभ्यां समेताईशो नियन्ता । नियन्तृत्वसामर्थ्यमाह-हिरण्मयः हिरण्मयो ज्ञानप्रचुरस्तत्प्रधानो वाऽऽदित्यस्थः सर्वकार्यकारणात्मा । अहं व्याख्यातम्। शिवरूपं मङ्गलवरूपं ब्रह्म अस्मि भवामि ।। २० ॥ अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ॥ अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥२१॥ न चास्ति वेचा ममेति । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोतेति श्रुत्यन्तरात् ॥ २१ ॥ इदानी सर्वकारणहीनस्य सर्वज्ञतां स्वस्याऽऽह–अपाणिपाद इति । अपाणिपादः पाणिपादहीनः । अहं व्याख्यातम् । अचिन्त्यशक्तिर्दुर्बोधशक्तिः । एवंभूतोऽपि जवनो ग्रहीतेत्यर्थः । पश्याम्यवलोकयामि अचक्षुश्चक्षुहीनः । सोऽचक्षुर्द्रष्टा । शृणोमि श्रवणं करोमि । अकर्णः कर्णरहितः । अहं व्याख्यातम् । विजानामि विविधं प्रपञ्चजातमवगच्छामि । विविक्तरूपो बुद्ध्यादिपृथयूपः। न चास्ति नास्त्येव । वेत्ता कर्मकर्तृभावेनावगन्ता । ममाऽऽनन्दात्मनो भेदरहितस्य । चित्स्वयंप्रकाशबोधस्वभावः । सदा सर्वदा । अहं व्याख्यातम् ॥ २१ ॥ वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २२ ॥ न पुण्यपापे मम स्तो नास्ति वा नाशः । ममेत्येव । न जन्म ममेत्येव । देहेन्द्रियबुद्धिर्मम नेत्येव ॥ २२ ॥ इदानी सर्वशास्त्रप्रतिपाद्यस्याऽऽत्मनः सर्वविकाराभावं दर्शयति-वेदैरनेकैरिति । वेदैर्ऋगादिभिः । अनेकैर्बहुभिः । अहं व्याख्यातम् । वेद्यः प्रतिपाद्यः । वेदान्तकृद्वेदान्तसूत्रकृद्वेदव्यासरूपः । वेदविदेव च वेदान्तकृतो विशेषणम् । वेदान्तानां साङ्गानां विद्यास्थानानां वेत्ता वेदवित्स एव न त्वन्यः । चशब्दादनेकतपःसंपन्नश्च । अहं व्याख्यातम् । अनेन विभूतिमत्सत्त्वेष्विदमेव प्रधानमित्युक्तम् । न पुण्यपापे मम । स्पष्टम् । स्त इति शेषः । नास्ति नाशो विनाशो न विद्यते । ममे. त्यनुषङ्गः । न जन्म जनिः । मम नास्तीत्यनुषङ्गः । देहेन्द्रियबुद्धिर्देहश्चेन्द्रियाणि च बुद्धयश्च देहेन्द्रियबुद्धिः । नास्ति न विद्यते । ममेत्यनुषङ्गः ॥ २२ ॥ न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ॥ एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।। २३ ।। आपो न चेति वाक्यम् । वह्निरस्ति न चेति वाक्यम् । अनिलो नास्तीत्येकम् । फलमाह-एवमिति । एवं विदित्वा शुद्धं परमात्मरूपं प्रयातीत्यन्वयः ॥ २३ ॥ न भूमिरिति । न भूमिरापो मम पृथ्वी सोदका मम नास्तीत्यनुषङ्गः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy