SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कैवल्योपनिषत् । इदानी सर्वस्मात्प्रपञ्चाद्वैलक्षण्यमाह-त्रिषु धामस्विति । त्रिषु जागरणस्वप्नसुषुप्तिषु । धामसु स्थानेषु । यत्प्रसिद्धम् । भोग्यं स्थूलप्रविविक्तानन्दस्वरूपम् । भोक्ता विश्वतैनसप्राज्ञाख्यः । भोगश्च स्थूलप्रविविक्तानन्दस्वरूपभोगोऽपि । चशब्दादधिदैवादिविभोगोऽपि । यदुक्तं विधामभोग्यादिप्रपञ्चनातम् । भवेत् । स्पष्टम् । तेभ्यस्त्रिधामादिभ्यः । विलक्षणो विपरीतलक्षणः । वैलक्षण्यमाह-साक्षी स्वाध्यस्तस्य विश्वस्य द्रष्टा । चिन्मात्रश्चिदेकरसः। अहमहंप्रत्ययव्यवहारयोग्यः । सदाशिवः कैवल्यात्मा नित्यकल्याणरूपो महेश्वरः ॥ १८ ॥ मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् ।। मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ १९ ॥ ॥ १९॥ प्रपञ्चवैलक्षण्यमुक्त्वेदानी जगज्जन्मादिकारणत्वमपि स्वस्याऽऽह--मय्येवेति । मय्येव मत्त एव ब्रह्माभिन्नान्नत्वन्यस्मात् । सकलं निखिलं भूतभौतिकप्रपञ्चजातम् । जातमुत्प. बम् । मयि ब्रह्माभिन्ने । सर्व निखिलं विश्वम् । प्रतिष्ठितं प्रकर्षेण स्थिति प्राप्तम् । मयि सर्वम् । व्याख्यातम् । लयं याति विनाशं गच्छति । तत्तस्मात्सर्वजगजन्मस्थि. तिध्वंसकारणत्वात् । ब्रह्म बृहदेशकालवस्तुपरिच्छेदशून्यम् । अद्वयं ज्ञातृज्ञेयादिविभागशून्यम् । अस्मि भवामि । अहं ब्रह्मणोऽवगन्ता ॥ १९ ॥ अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ॥ पुरातनोऽहं पुरुषोऽहमांशो हिरण्मयोऽहं शिवरूपमस्मि* ॥ २० ॥ ॥ २० ॥ जगज्जन्मस्थितिध्वंसकारणत्वाज्जगदाकारत्वेन विकारित्वं प्राप्तं तदेवातिदुर्बोधस्वरूपत्वेन वारयति । अणोरणीयानिति । अणोरणुपरिमाणात् । अणीयानति. शयेनाणुः । अहमेव जगत्कारणमहंप्रत्ययव्यवहारयोग्यो न त्वन्यः । तद्वद्यथाऽणुस्तथा । महान्सर्वस्मादप्यधिकः । अहम् । व्याख्यातम् । अणीयसां महतां कारणानां च यथा भेदस्तथा तवापि स्यादित्यत आह-विश्वं साविद्यं भूतभौतिकप्रपश्चनातम् । अहम् । व्याख्यातम् । अस्य तत्त्वभेदराहित्ये स्वस्मादप्यभेदः स्यादित्यत आह-वि. चित्रम् । विविध स्वयमनन्तभेदवदित्यर्थः । तदभिन्नस्य तवाप्याधुनिकत्वं स्यादित्यत आह-पुरातनश्चिरंतनः । आधुनिकसाधारा बलीवर्दमूत्रतत्त्वाद्यभिन्ना चिरंतनी रज्जुरिख । अहं व्याख्यातम् । पुरुषः परिपूर्णो वस्तुतः। अहं व्याख्यातम् । अविद्यादशायां * "नारायणोऽहं पुरुषः शिवोऽहं ब्रह्माहमस्मि सकलोऽहमस्मि । पूर्णोऽहमस्मि पुरुषोऽहमस्मि ज्ञानोऽहमस्मि सत्योऽहमस्मि" अयं मन्त्रः ख. ङ. पुस्तकयोरेव दृश्यते। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy