SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेताभावम् । यस्मिन्नखण्डबोधे लयं विनाशम् । याति गच्छति । पुरत्रयं च । व्याख्यातम् । चशब्दादन्यदपि ॥ १४ ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ॥ खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ १५॥ . एतस्मात्तुरीयावस्थाद्ब्रह्मणः ॥ १५ ॥ एतस्मात्पुरत्रयाधिष्ठानाबुद्धेन॒ष्टुः। जायत उत्पद्यते माणः क्रियाशक्तिः। मनोऽ. न्तःकरणं ज्ञानशक्तिः । सर्वेन्द्रियाणि च सर्वकर्मज्ञानेन्द्रियाण्यपि । चशब्दादेहादिकमपि । खं नमः । वायुर्नभस्वान् । ज्योतिस्तेजः । आपो नीराणि । पृथिवी भूमिः । विश्वस्य निखिलस्य स्थावरजङ्गमात्मकस्य प्राणिजातस्य । धारिणी विधारिणी ॥ १५ ॥ यत्परं ब्रह्म सर्वात्मा विश्वस्याऽऽयतनं महत् ॥ सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६ ॥ तत्त्वमेवेति। ब्रह्मणस्त्वदनन्यत्वं बोध्यते । त्वमेव तदिति तव ब्रह्मानन्यत्वम्॥१६॥ इदानी महावाक्यार्थमाह-यत्परं ब्रह्मेति । यत्प्रसिद्धम् । परमुत्कृष्टम् । ब्रह्म बृहद्देशकालवस्तुपरिच्छेदशून्यम् । सर्वात्मा सर्वप्राणिहृदि स्थितः सर्वानन्यश्च । विश्वस्य सर्वस्य कार्यकारणजातस्य । आयतनमाधारभूतम् । महत्प्रौढं सर्वाधारत्वेनैव । सूक्ष्मादणुपरिमाणात् । सूक्ष्मतरं महदप्यतिशयेनाणु । नित्यं विनाशशून्यम् । तदुक्तं परब्रह्म त्वमेव तदवगन्तैव न त्वन्यत्। ननु तन्मत्तोऽन्यदहं तु तस्मादन्यो मयि कर्तृत्वादिविशेषोपलम्भादित्यत आह-त्वमेव तत् । त्वं कर्ता भोक्ताऽविद्यया वस्तु. तस्तत्परं ब्रह्मैव न त्वन्यः ॥ १६ ॥ जाग्रत्स्वमसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ॥ तब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७ ॥ प्रपञ्चमिति च्छान्दसं नपुंसकत्वम् ॥ १७ ॥ इदानीमेवं ज्ञाने फलमाह-जाग्रत्स्वमेति । जाग्रत्स्वमसुषुप्त्यादिप्रपञ्चम् । जाग्रत्स्वप्नसुषुप्तय उक्तास्तदादयो विश्वविराडादयस्त एव प्रपञ्चो जाग्रत्स्वप्नसुषुप्त्यादिप्रपश्वस्तम् । यत्प्रसिद्धं स्वयंप्रकाशम् । प्रकाशते प्रकाशयति । तदुक्तं स्वयंप्रकाशम् । ब्रह्म सत्यज्ञानादिलक्षणम् । अहं ब्रह्मावगन्ता चिदानन्दात्मा । इत्यनेन प्रकारेण । ज्ञात्वा साक्षात्कृत्य । सर्वबन्धैर्निखिलबन्धैरहंममाद्यैरेव सकारणैः । प्रमुच्यते प्रकर्षेण मुक्तो भवति ॥ १७ ॥ त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ॥ तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy