SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कैवल्योपनिषत् । १०७ स्वमै स जीवः सुखदुःखभोक्ता स्वमायया कल्पितंजीवलोके ।। सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ॥ १३ ॥ स्वमायया स्वाज्ञानेन कल्पिते जीवलोके सुखदुःखभोक्तेत्यन्वयः। सकले जगति विलीने कारणभावमापन्ने । तमोभिभूतोऽज्ञानावृतः स्वपिति ॥ १३ ॥ इदानीं स्वप्नसुषुप्त्योर्विक्षेपतदभावकथनेन संसारमोक्षयोरादृष्टान्तमाह-स्वमेति । स्वम इन्द्रियग्रामोपरमरूपायां स्वप्नावस्थायाम् । स जाग्रद्भोक्तैव । जीवः प्राणानां धारयिता विविधवासनावासितः । सुखदुःखभोक्ता सुखदुःखयोः प्रसिद्धयोर्भोक्ता । अहं सुख्यहं दुःखीत्येवंरूपप्रत्ययवान्सुखदुःखभोक्ता । तत्र संसारदृष्टान्ते वास्तवत्वं वारयति-स्वमायया स्वस्य तत्तद्देहाभिमानिनो मायाऽज्ञानं विपरीतं ज्ञानं च तया । कल्पितविश्वलोके कल्पिते वासनारूपे विश्वस्मिन्त्रथरथयोगपादिके निखिले लोके भुवने जने च कल्पितविश्वलोके । स्वप्ने यथा तद्वज्जागरणेऽपीत्यर्थः । सुषुप्तिकाले आनन्दभोगावसरे । सकले निखिले । विलीने विशेषविज्ञाने स्वकारणे लयं गते । एतावत्सुषुप्तौ मोक्षे च सममियांस्तु विशेषः । तमोभिभूतोऽज्ञानावृतः । मुखरूपं स्वस्वरूपं स्वयंप्रकाशमानन्दात्मस्वरूपम् । एति गच्छति ॥ १३ ॥ पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः। पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ॥ आधारमानन्दमखण्डबोधं यस्मिल्लयं याति पुरत्रयं च ॥ १४ ॥ प्रबुद्धः स्वप्नादुत्थितः । पुरत्रये विश्वतैजसप्राज्ञैरभिमतेऽवस्थात्रये । सकलं ततः सुनातं तस्माज्जीवात्सु सम्यगुत्पन्नम् । ततस्तु जातमिति युक्तः पाठः । तुरीयमाहआधारमिति । पुरत्रयं च यस्मिल्लयं याति ॥ १४ ॥ पुनश्चेति । पुनश्चाऽऽनन्दात्मस्वरूपं प्राप्य भूयोऽपि । जन्मान्तरकर्मयोगात्प्राग्भवीयकर्मानुसारात् । स एवाऽऽनन्दात्मस्वरूप प्राप्त एव सुषुप्तिं गतो न त्वन्यः । जीवः प्राणविधारकः । स्वपिति स्वप्नावस्थां गच्छति सुषुप्तात् । अथवा प्रबुद्धः प्रबोधं जागरणं प्राप्तो भवतीति शेषः । इदानी जीवब्रह्मणोरैक्यमाह-पुरत्रये स्थूल. सूक्ष्माज्ञानाख्ये शरीरत्रये क्रीडति विहरति । यश्च जीवः । चकार एवकारार्थः । प्रसिद्धः परमात्मैव प्राणधारकः । ततस्तु तस्मादेव जीवाभिन्नादेव न त्वन्यतः । जातमुत्पन्नम् । सकलं निखिलम् । विचित्रं विविधनामरूपं विश्वम् । आधारमानन्देति । आधारं रज्जुरिव सर्पधारा बलीवर्दमूत्रितादेः सकलस्य विश्वस्याऽऽधारभूतम् । आनन्दं निरतिशयानन्दस्वरूपम् । अखण्डबोधमानन्दस्वरूपत्वेऽपि स्वयंप्रकाशैकस्व १ क. ख. नेऽपि जी । च. ड. छ. ने तु जी । २°तविश्वलों इति शंकरानन्दपाठः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy