SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०६ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता स्थस्तम् । आत्मानमस्मत्प्रत्ययव्यवहारयोग्यम् । सर्वभूतानि च निखिलानि स्थावराणि जङ्गमानि भूतानि सर्वभूतानि । चकार आधाराधेयभावव्युत्क्रमार्थः । आत्मन्यानन्दात्मन्यप्रत्यययोग्ये संपश्यन्सम्यक्संशय विपर्ययमन्तरेणावलोकयन् । ब्रह्म बृहद्देशकालवस्तुपरिच्छेदशून्यम् । परममुत्कृष्टमनुपचरितमित्यर्थः । याति प्राप्नोति । न यातीति देहलीप्रदीपन्यायेन संबध्यते । न याति न प्राप्नोति । अन्येनोक्तबोधव्यतिरिक्तेन । हेतुना कारणेन । ध्यात्वा गच्छतीत्यस्य व्याख्यानं ज्ञात्वा तमित्यादि । नान्यः पन्था विमुक्तय इत्यस्य व्याख्यानं त्विदं सर्वभूतस्थमित्यादि ॥ १० ॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ॥ ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ॥ ११ ॥ ॥ ११ ॥ यदा त्वेवं ज्ञानं नोत्पद्यते तदा तदुत्पादन उपायमाह - आत्मानमिति आत्मानमन्तःकरणम् । अरणिं वह्निजनकं मन्त्रसंस्कृतं काष्ठम् । कृत्वाऽधो विधायाधरारणित्वेन चिन्तयित्वेत्यर्थः । प्रणवमोंकारं चोत्तरारणिमुत्तरारणिमपि । चकारः कृत्वेत्येतदनुवृत्त्यर्थः । ज्ञाननिर्मथनाभ्यासाज्ज्ञानस्य सर्वात्मकोऽहमस्मीत्येवंरूपस्य निर्मथनं युक्तिभिर्विलोडनं तस्याभ्यास आवृत्तिरूपो ज्ञाननिर्मथनाम्यासस्तस्मादुत्पन्नेनाहं ब्रह्मास्मीतिसाक्षात्काराग्निना । पाशमात्मनो बन्धरूपमज्ञानरज्जुरचितमहंममादिग्रन्थिम् । दहति भस्मीकरोति । पण्डितः पण्डाऽहं ब्रह्मास्मीति बुद्धिस्तामितः प्राप्तः पण्डितः ॥ ११ ॥ · एवं मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् || स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२ ॥ स्त्रियन्नेति । छान्दस इयङ् ॥ १२ ॥ नन्वस्यासङ्गोदासीनस्याद्वितीयस्य कुतः संसारः पाशरूप इत्यत आह - स एषेति । स एवोक्तोऽसङ्गोदासीन एव न त्वन्यः । मायापरिमोहितात्मा मायाऽविद्याssवरणविक्षेपकरी शक्तिस्तया परिमोहित आत्मा स्वयंप्रकाश आनन्दात्मस्वरूपो यस्य स मायापरिमोहितात्मा । शरीरं स्थूलादिभेदभिन्नं मनुष्यादिकलेवरम् । आस्थायाहं मनुष्य इत्याद्यभिमानं समन्तात्स्वीकृत्य । करोति सर्वे निखिलं व्यापारजातं कुरुते । स्त्रियम्रपानादिविचित्रभोगैः खियो मनोनुकूला युवत्यः । अन्नपाने मनोनुकूले । आदिशब्देन चाssसनाच्छादनादीनि मनोनुकूलानि । तैः स्त्रियन्नपानादिविचित्रभोगैः । स्त्रियन्नेति च्छान्दसम् । स एव मायापरिमूढ एव न त्वन्यः । जाग्रज्जागरणमिन्द्रियैर्बाह्यविषयोपलब्धिरूपं कुर्वन् । परितृप्तिं सर्वतो विषयसुखजा तृप्तिः परितृप्तिस्ताम् । एति गच्छति । सुखं दुःखं च प्राप्नोतीत्यर्थः ॥ १२ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy