SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कैवल्योपनिषत् । यस्मिन्स नाकस्तं स्वर्गस्योपरीत्यर्थः । अथवा परेण परं नाकमानन्दात्मानम् । निहितं क्षिप्तं स्वयमेव स्थितम् । गुहायां बुद्धौ । विभ्राजते विशेषेण स्वयंप्रकाशत्वेन दीप्यते। यत्प्रसिद्ध विश्वव्यापिस्वरूपम् । यतयः कृतसंन्यासाः प्रयत्नवन्तो ब्रह्मसाक्षात्कार संप्रपन्नाः । विशन्ति प्रविशन्ति । इदं वयं स्म इति साक्षात्कारेण तदेव भवन्तीत्यर्थः । यतीनां विशेषणान्याह-वेदेति । वेदान्तविज्ञानसुनिश्चितार्था वेदान्ताः प्रसिद्धास्तेभ्यो जातं विशिष्टमहं ब्रह्मास्मीति ज्ञानं तस्मिन्नेव सुनिश्चितोऽर्थः प्रयोजनं येषां ते । अथवा सुनिश्चितोऽयमित्थमेवेति सम्यगवधारितो ब्रह्मलक्षणोऽर्थोऽभिधेयो यैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः । संन्यासयोगात्सम्यक्काकविष्ठादिवल्लोकद्वयभोगस्य न्यासस्त्यागः संन्यासस्तस्य योगोऽहं संन्यास्यस्मीति बोधस्तस्मात् । यतयो व्याख्यातम् । पुनरादानं विशेष्यत्वकथनार्थम् । शुद्धसत्त्वाः शुद्धं रागादिकषायरहितं सत्त्व. मन्तःकरणं येषां ते शुद्धसत्त्वाः। एवंभूता अपि कृतश्चित्प्रतिबन्धादस्मिश्शरीरेऽनुत्पन्नसाक्षात्काराश्चेत्तदा त उक्ता यतयः । ब्रह्मलोकेषु ब्रह्मणः कार्यस्यैक एव लोकोऽनेकभूमिकाप्रासादवदधउपर्यादिभागेनावस्थिता बहव इत्येतेनाभिधीयते तेषु ब्रह्मलोकेषु । परान्तकाले परस्य कार्यस्य ब्रह्मणोऽन्तकालो विनाशकालो द्विपरार्धावसानः परान्तकालस्तस्मिन् । परामृतादुत्कृष्टादमरणधर्मणो व्याकृतात् । परिमुच्यन्ति विमुच्यन्ते सर्वतो विमुक्ता भवन्ति । सर्वे निखिलाः ॥ ३ ॥ विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ॥ ४॥ संन्यासयोगादित्युक्तं तत्र गुहानिहितप्रकाशनाय योगस्वरूपमाह-विविक्तेति । समानि ग्रीवाशिरःशरीराणि यस्य स समग्रीवशिरःशरीरः । ड्यापोरिति प्रीवाशब्दस्य ह्रस्वः । समा ग्रीवा यस्य तत्समग्रीवं तादृशं शिरो यस्मिंस्तत्समग्रीवशिरस्तादृशं शरीरं यस्य स तथेति वा ॥ ४ ॥ __ इदानी ब्रह्मज्ञानावाप्त्यर्थमुपासनं कर्तुमुपवेशनार्थ देशविशेषादिकमाह-विविक्तदेशेति । विविक्तदेशे चैकान्तदेशे । चशब्दादव्याकुलकालेऽपि । सुखासनस्थः सुखमनुद्वेगकरं दर्भाद्यासनं सुखासनं तस्मिंस्तिष्ठतीति सुखासनस्थः । शुचिर्बहिरन्तःशौचवान् । समग्रीवशिरःशरीरः समानि ग्रीवा च शिरश्च शरीरं च यस्य समग्रीवशिरःशरीर ऋजुकायः पद्मकाद्यासनस्थ इत्यर्थः ॥ ४ ॥ अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम्।।५।। *अन्त्याश्रमश्चतुर्थाश्रमः ॥ ५ ॥ अत्याश्रमस्थः, अत्यधिको ब्रह्मचारिगृहिवानप्रस्थकुटीचकबहूदकहंसेभ्यः आश्रमः * मूलेऽन्याश्रमस्थ इति पाठोऽनेनानुमीयते । आदर्शपुस्तकेषु तु नोपलभ्यते । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy