SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ नारायणशंकरविरचितदीपिकाभ्यां समेतापारमहंस्यलक्षणस्तस्मिंस्तिष्ठतीत्यत्याश्रमस्थः । सकलेन्द्रियाणि निखिलानि समनस्कानि ज्ञानकर्मेन्द्रियाणि । निरुध्य स्वस्वप्रचारेभ्योऽवरुध्य । भक्त्या देववहेवादाधिक्याद्वा । स्वगुरुं स्वस्य गुरुं तत्त्वमसीत्यर्थस्यावबोधकम् । प्रणम्य प्रकर्षेण नत्वाऽनन्तरम् । हृत्पुण्डरीकमिति । हृत्पुण्डरीकं हृत्कमलं पञ्चच्छिद्रादिविशेषणम् । विरजं विरजस्कमपगतरागद्वेषादिकम् । विशुद्धं विगतसमस्तदुःखादिदोषम् । विचिन्त्य विशेषेण ध्यात्वा । मध्ये हृत्पुण्डरीकस्यान्तः । विशदं निर्मलं शुद्धस्फटिकसंकाशमित्यर्थः । विशोकं विगतशोकं विगतदुःखं विशोकमानन्दपूर्णहृदयं स्मेरास्मिताननं चेत्यर्थः ॥ ५॥ अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ तथाऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ॥ ६ ॥ ब्रह्मयोनि वेदकारणम् ॥ ६ ॥ वस्तुतस्तु--अचिन्त्यं वाङ्मनसातीतत्वेन प्रत्ययसंतत्यविषयम् । वाङ्मनसातीतत्वे हेतुः । अव्यक्तं शब्दावशेषविशेषशून्यत्वादस्पष्टमव्यक्तम् । असत्त्वं परिच्छेद च वारयति-अनन्तरूपं न विद्यतेऽन्त इयत्ता रूपाणां यस्य सोऽनन्तरूपस्तम् । देशकालवस्तुपरिच्छेदशून्यं वाऽनन्तरूपम् । शिवं मङ्गलरूपम् । प्रशान्तमविद्यादोषरहितम् । अमृतं कालत्रयासंस्पृष्टम् । अमृतवद्वा निरतिशयानन्दरूपत्वेन । ब्रह्म बृहत्सर्व. स्मादप्यधिकम् । योनि जगज्जन्मादिकारणम् । तथाऽऽदीति । तथा यथैतद्विशेषणजातं तद्वत्स्वरूपमपि । आदिमध्यान्तविहीनमुत्पत्तिपरिच्छेदविनाशवर्जितम् । तत्र हेतुःएकमद्वितीयं वस्तुमात्ररहितम् । विभुं समर्थ व्यापिनं वा । चिदानन्दं स्वयंप्रकाशमाननिरतिशयानन्दम् । अरूपं चिदानन्दव्यतिरिक्तरूपरहितम् । ततोऽद्रुतमाश्चर्यकरम् ॥ ६ ॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ ध्यात्वा मुनिगच्छति भूतयोनि समस्तसाक्षि तमसः परस्तात् ॥ ७ ॥ समस्तसाक्षि सर्वसाक्षिणम् । इकारान्तः साक्षिशब्दश्छान्दसः ॥ ७ ॥ उमासहायमुमा ब्रह्मविद्या सहायः कामादिचोररक्षिका यस्य । अर्धनारीशरीरत्वेन वा वामाङ्कस्थिता भवान्यनुपमयुवतिरूपेण यस्य स उमासहायस्तम् । परमेश्वरमुत्कृष्टं ब्रह्मादिनियन्तारम् । प्रभुं समर्थम् । त्रिलोचनं त्रीणि सोमसूर्याग्न्यात्मकानि लोचनानि यस्य स त्रिलोचनस्तम् । नीलकण्ठं कृष्णकण्ठम् । प्रशान्तं प्रसन्नवदनेन्द्रियम् । ध्यात्वेति । ध्यात्वा प्रत्ययप्रवाहेण साक्षात्कृत्य । मुनिर्मननशीलः । गच्छति प्राप्नोति । भूतयोनिमाकाशादिमहाभूतकारणम् । तर्हि किं कारणत्वोपाधिकमित्याशङ्कयाऽऽह-समस्तसाक्षि सर्वसाक्षिणं सर्वबुद्धिप्रचारद्रष्टारम् । साक्षित्व. १ अनन्तमव्यक्तमचिन्त्यरूपमित्यपि क्वचित्पुस्तके पाठः। २ तमादीति क्वचित्पाठः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy