SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आरुणेय्युपनिषत् । चान्यदपीह यतयो भिक्षार्थ ग्राम प्रविशन्ति । पाणिपात्रमुदर पात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेद्विद्वान्य एवं अन्यदपीहेति।अन्यगृहक्षेत्रादिकम् । अपिशब्दाद्यद्यस्य स्वभावप्रियं स तदपि त्यजेत्। यतेरग्रामवासश्च कर्तव्य इत्याह-यतय इति । विशेषविधिः शेषनिषेधफलो ब्राह्मणैः प्रवेष्टव्यमितिवत् । तेनान्यदा ग्रामं न प्रविशन्तीत्यर्थः । जलपात्रवद्भिक्षापात्रं संग्राह्य नेत्याह-पाणिपात्रमुदरपात्रं वेति । कर्मधारयौ पाणी अञ्जलिः पाणिर्वा पात्रमुदरं प्रासार्थ मुखप्रसारणेन पात्रम् । वाशब्दोऽनास्थायाम् । तेन भूम्यादिकमपि । भिक्षादौ नप्यं मन्त्रमाह-ॐ हीति । मन्त्रार्थस्तु हि निश्चितं सर्वमों परमात्मैव । त्रिरावृत्तिजपप्रकारप्रदर्शनार्था । ओंकारस्यैव प्राधान्येऽपि हिशब्दः संधिव्यावृत्त्यर्थः । तस्य कल्पोक्तान्यासानपि कुर्यादित्याह-विन्यसेदिति । उपनिषदशब्दोऽकारान्तो नपुंस. कम् । यद्वैषा चासावुपनिषच्च तां रहस्यज्ञानमुपनिषदुपचारान्मन्त्रोऽपि । न्यासप्रकारस्तु प्रणवकल्पवदवसेयः । उपासनाफलमाह-विद्वान्य एवं वेदेति । ब्रह्मचर्यादिभिर्य एवंगुणकमोंकारं शब्दतो न्यासतोऽर्थतश्च वेद विदित्वा चाभ्यसति स विद्वान्भवति । यथोक्तं ब्रह्म साक्षात्करोतीत्यर्थः । इदानी ब्रह्मचारिणां संन्यासे कर्तव्ये पूर्वदण्डेनैव स्वयमाह । अन्यदपि गृहक्षेत्रादिकम् । अपिशब्देनोक्तमनुक्तमपि सर्वम् । इहास्मिल्लोके । इदानीमग्रामवासश्च करणीय इत्येतदर्थमाह। यतय इन्द्रियनिग्रहप्रयत्नवन्तः । भिक्षार्थ माधुकराद्यन्यतमयोदरपूरणार्थम् । ग्राममनेकजननिवाससंकुलं देशम् । प्रविशन्ति । स्पष्टम् । पूर्वमनुक्तं पात्रजातं प्रसङ्गेनाऽऽह । पाणिपात्रं पाणिरञ्जलिर्दक्षि. णपाणिर्वा भिक्षार्थ पात्रं पाणिपात्रम् । वाशब्द उक्तानामनुक्तानां च पात्राणां समु.. चयार्थः । इदानीमनेन भिक्षादौ जप्यं मन्त्रमाह । ॐ हि । हि हेत्वर्थे । यस्मादोंकार . एव सर्वा वाक्तस्मादोंकार एव जप्यः संन्यासिना सर्वदा सर्वकर्मसु । अकारोकारमकारार्धमात्राभिर्विराड्ढिरण्यगर्भेश्वरब्रह्मार्थपरत्वाच्चोंकारः सर्वात्मा। ॐ हीति। व्याख्या.. तम् । निरभ्यास ओंकारजप आदरार्थः । एतदोंकाराख्यम् । उपनिषदमुप सामीप्ये. नाहं ब्रह्मास्मीति गमयित्वा नितरामहंममादिग्रन्थीशिथिलीकृत्याविद्यां सकार्यसंस्कारां सादयति विनाशयतीत्युपनिषत्तद्धेतुः प्रणवोऽप्युपनिषत्ताम् । विन्यसेद्गुरूपदिष्टेन मार्गेण तस्मिंस्तस्मिन्नने विविधन्यासं कुर्यात् । विद्वान्व्याख्यातम् । य एवं वेद । यः प्रसिद्धः संन्यासी पूर्वोक्तगुणविशिष्टः । एवमुक्तेन प्रकारेणोंकारं संन्यासादिभिरा ब्रह्मसाक्षात्कारागुरूपदिष्टेन मार्गेण वेद जानाति स विद्वान्ब्रह्मसाक्षात्कारवान् । भवतीति शेषः । इदानी ब्रह्मचारिणां संन्यासे कर्तव्ये पूर्वदण्डेनैव दण्डित्वनिवारणार्थ यो हि भि इति क्वचित्पुस्तके । २ 'पाणिपात्रं वा' इति शंकरानन्दपाठः । ३ ख. ॐ खेतद्विन्य । ४ ख. °सेदुप' । घ. सेत्खल्वेतामुपनिषदं विद्वा । ५ घ. °कल्पाद। ६ घ. णमों ) ७ ख. 'भ्यस्यति । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy