________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आरुणेय्युपनिषत् । कामक्रोधलोभमोहदम्भदायाममत्वाहंकारानृतादीनपि
त्यजेद्वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेब्रह्मेत्यादिनाऽऽन्तरं ग्राह्यमुक्तम् । संप्रत्यान्तराणि त्याज्यान्याह-कामेत्यादिना । कामो मैथुनेच्छा विषयमात्राभिलाषो वा । क्रोधः कामविद्यानुनः कामानुजः प्रज्वलनात्मकः । लोभ उपात्तस्यातित्यक्षा मोहोऽनित्याशुचिदुःखानात्मनि शरीरे नित्यशुचिसुखात्मबुद्धिः । दम्भो धर्मध्वजित्वम् । दर्पो गर्वः परावज्ञानेन स्वात्मन्यधिका बुद्धिः । असूया परोत्कर्षासहिष्णुता । ममत्वं परस्मिन्स्वसंबन्धिबुद्धिः । अहंकारो जातिगुणकर्माभिमानः । अनृतमाप्रियाहिताप्रमाणदृष्टार्थवचनम् । आदिशब्देन हर्षशोकादिद्वंद्वानि गृह्यन्ते । कामादीनां दशानां द्वंद्वस्तत आदिशब्देन बहुव्रीहिः । तानि त्यजेन्न पुनः स्मरेत् । परिव्राजकसंज्ञया परितोबजनकर्तृत्वे प्राप्ते तदपवादमाहवर्षासु ध्रुवशील इति । अग्रेऽष्टावित्युक्तेः पञ्चर्तुपक्षे चतुरो मासा वर्षास्तासु ध्रुवं शीलमस्य । ध्रुव इत्येव सिद्धे शीलग्रहणं कीटाकुलायां भूमौ सर्वथाटननिषेधार्थम् । शेषेष्वर्थसिद्धमटनमनुजानाति–अष्टौ मासानेकाकी यतिश्चरेदिति ।
"बहूनां कलहो यस्माद्वयोर्वार्ता भवेद्यतः ।
एक एव चरेद्विद्वान्कुमार्या इव कङ्कणम्" ।। कामक्रोधलोभमोहदम्भदोसूयाममत्वाहंकारानृतादीनपि कामो मैथुनेच्छा विषयमात्राभिलाषो वा । क्रोधः स्वविषयविच्छेदके हेतावनिष्टार्थो मनोधर्मविशेषः । लोभो विद्यमानस्यापरित्यागः । मोहोऽनित्याशुचिदुःखानात्मके शरीरे नित्यशुचिसुखात्मबुद्धिः । दम्भो धर्मध्वजित्वम् । दर्पो लोकतिरस्कारकारणं मनोधर्मविशेषः । वात्मन्याधिक्यबुद्धिरित्यर्थः । असूया स्वव्यतिरिक्तजनगुणासहिष्णुत्वम् । ममत्वमिदं ममेष्टामिदमनिष्टमित्येवं बुद्धिः । अहंकारोऽहं मनुष्यो ब्राह्मणः संन्यासी कर्ता भोक्तेत्यादिरूपः । अनृतमप्रियमहितमप्रमाणदृष्टार्थं वचनम् । आदिशब्देन वचनपरिभावादिकं गृह्यते । कामादिप्वनृतान्तेषु द्वंद्वसमासो वक्तव्यः । उक्तान्कामादीनपिशब्देनानुक्तान्बाह्यांश्वेतनाचेतनांश्च त्यजेत्यागं कुर्यात् । वर्षासु, आषाढादिमासचतुष्टये । इदं पश्चर्तुपक्षा. भिप्रायं न तु पक्षा वै मासा इत्यभिप्रायम् । ध्रुवशीलोऽवस्थानशीलः । अष्टावष्टसु माःसु मासेषु । एकाकी सहायशून्यः । सत्यपि सहाय एकाकी रागद्वेषशून्यो वा । यतिरिन्द्रियनिग्रहे प्रयत्नवान् । चरेद्यश्चास्तमितशायी(?) समुद्रमेखलां भूमि पर्यटेत् ।
१ घ. दीन्परित्य । २ ख. 'टौ मा:स्वेका । ३ घ. 'स्यापरित्यागः । मो। ४ ख. "षेषु नामधेयसि । ५ ख. सिद्धार्थमर्नु ।
For Private And Personal