________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणशंकरविरचितदीपिकाभ्यां समेतापरमहंसपरिव्राजकानामासनशयनाभ्यां भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाबुपात्रं दारुपात्रं वा
परमहंसपरिव्राजकानामिति । धर्मा वक्ष्यन्त इति शेषः । अथ प्रैषोच्चारणदण्डग्रहणानन्तरम् । यतो ब्रह्मचर्यादिरक्षणं विना न सिद्धिस्तच्च स्वधर्मत्यागे नेत्यतो धर्मा वक्ष्यन्ते केषां परं केवलमहं स परमात्मा न ततोऽन्योऽहमिति निश्चिताः परमहंसाः परिव्रजन्ति गृहबन्धं परित्यज्य परिव्राजकास्ते च ते तेषाम् । आसनशयनाभ्यां भूमाविति । भूमावेवाऽऽसनेन दिवा शयनेन रात्रौ कालं नयेतेति शेषः । आसनं स्वरूपावस्थानं शयनं बाह्यविषयविस्मृतिः । तदुक्तम्-“यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः" इति । तेन पर्यङ्कादिपरित्यागेऽपि स्वरूपविस्मृतौ विषयचिन्तने चाकतार्थ एवेति भावः । ब्रह्मचारिणामिति । तेषामेव विशेषणम् । उपलक्षणमेतदहिंसासत्यास्तेयापरिग्रहवतामित्यपि ज्ञेयम् । उदकव्यवहारार्थं पात्राण्याह-मृत्पात्रं वाऽलाबुपात्रं दारुपात्रं वति । अलाबुस्तुम्बीफलम् । अशनपात्रं तु वक्ष्यति पाणिपात्रमुदरपात्रं वेति । वाशब्दावनास्थायां यथालाभमतैजसानि पात्राणि स्युरिति । तव पुत्रानि. त्यादिना बाह्यानि त्याज्यान्युक्तानि वैणवं दण्डमित्यादिना बाह्यानि ग्राह्याणि । खल्वहं
स्माद्धेतोः । परमहंसपरिव्राजकानां परम आनन्दात्माऽहमस्मीति हन्ति गच्छति जानातीति परमहंसः। परितः समन्ताल्लोकद्वयेऽपि व्रजति त्यजति संसारदुःखमिति परिव्राजकः । परमहंसश्चासौ परिव्राजकश्चेति परमहंसपरिव्राजकः । तेषां धर्मा वक्ष्यन्त इति शेषः।आसनशयनाभ्यामासनं स्वस्तिकाद्यन्यतमं स्वाभ्यस्तं शयनं शयनवन्नैश्चल्यं मूर्धावस्थानम् । अथवाऽऽसनमनात्मवस्तुविषये परित्यागेनोपवेशनं शयनं तस्य चिन्ताराहित्यम् । अथवा प्रसिद्ध एवाऽऽसनशयने तत्राभिप्रायस्त्वयं प्रथमत आसनमुपवेशनं वा करणीयं तस्मिंश्चेदुपवेष्टुमशक्तस्तस्य वरं शयनं न तु बाह्यविषयानचिन्तनादिकमिति । आसीनः शयानो वाऽऽत्मानं चिन्तयेदित्यर्थः । ताभ्यां कालं नयेन्नत्वन्येनेति शेषः । भूमावासनार्थं शयनार्थं वा न मञ्चकादिकं संपादयत्किं तु पृथिव्यामासनशयनाभ्याम् । तत्रापि ब्रह्मचर्यादीनां प्राधान्यार्थमाह । ब्रह्मचारिणां ब्रह्मणो ब्रह्मचर्यस्योक्तस्याऽऽचरणमनुष्ठानमाचारो येषां नित्यमस्ति ते ब्रह्मचारिणस्तेषाम् । उपलक्षणमेतदहिंसासत्यास्तेयापरिग्रहवताम् । उदकभिक्षाद्याहरणार्थ पात्राण्याह । मृत्पात्रं शरावकरकादिकम् । अलाबुपात्रं दारुपात्रं वा । स्पष्टम् । वाशब्दः पाणिपर्णोदरादिसमुच्चयार्थः । यथाप्राप्तमेतेषामन्यतमं भवतीत्यर्थः । इदानी वानाह ।
१ ख. पात्रमला। २ घ. ° वा दा।
For Private And Personal