________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
. आरुणेय्युपनिषत् । ब्रह्मचर्यमाहिंसां चापरिग्रहं च सत्यं च यत्नेन हे
रक्षतो३ हे रक्षतोश्हे रक्षत३ इति ॥३॥ अथातः ब्रह्मचर्यमित्यादि । युवतीनां स्मरणकीर्तनकेलिप्रेक्षणगुह्यभाषणसंकल्पाध्यवसायक्रियानिवृत्तिवर्जनं ब्रह्मचर्यम् । अहिंसा च मनोवाक्कायकर्मभिर्भूतानिष्टवर्जनम् । अपरिग्रह उक्तपरिग्रहव्यतिरिक्तवर्जनम् । सत्यं प्रियं हितं प्रमाणदृष्टार्थवचनम् । द्वौ चशब्दावुक्तसमुच्चयार्थौ । तृतीयोऽनुक्तास्तेयसमुच्चयार्थः । क्वचिदस्तेयं चेत्यपि पाठः । एतानि पञ्च यत्नेन हे यतयो रक्षतो३ रक्षतो३ द्वयोः प्लुतः । तृतीये पर्याये हे रक्ष. तेति प्लुतः । प्लुतिरुच्चैः श्रुत्या सर्वानुचैः श्रावयति प्रजापतिः । त्रिरुक्तिरादरार्था । प्राणात्ययेऽप्येतानि न परित्याज्यानीति । इतिशब्द उपदेशसमाप्त्यर्थः । हेशब्दावुशब्दौ चाभिमुखीकरणे । हे उ मुमुक्षवो ब्रह्मचर्यादीनि रक्षत पालयतावश्यमित्यर्थः ॥ ३ ॥
नादी इदानी ब्रह्मचर्यादिपञ्चकस्थैर्याय परमहंसस्य धर्म पुनर्वेषमिषेणाऽऽह-अथातः तम् । अभ्यासस्त्वादरार्थः । सर्वथाऽन्नं न परित्यजेत् । तस्य सर्वथा परित्याग आत्महिंसालोः पुरुषार्थपर्यवसायी संन्यासो न स्यात् । भक्षणेऽप्यन्नस्येदं मृष्टमिदं नेत्यासक्तिं न कुर्यात्तस्याः करणेन संन्यासभ्रेषः स्यादित्यादरार्थः । न चैतावताऽभक्ष्यस्य शरीरेऽनर्थकस्य वा भोजनं प्राप्तं यद्विहितं मेध्यं च तदनीयान्न वितरत् । गुणदोषौ न संकीर्तनीयाविति तात्पर्यार्थः । इदानीमौषधवदन्नप्राशनादिकं यदुक्तं तत्सर्वमेतदर्थमित्यभिप्रायेणाऽऽह । ब्रह्मचर्य युवतीनां स्मरणकीर्तनकेलिप्रेक्षणगुह्यभाषणसंकल्पाध्यवसायक्रियानिवृत्तीनां वर्जनम् । आहिंसां च कर्मणा मनसा वाचा भूतानिष्टवर्जनम् । अपरिग्रहं च कौपीनाच्छादनादिव्यतिरिक्तस्य शास्त्रनिन्दितस्य सर्वस्य द्रव्यजातस्य परिवर्जनम् । सत्यं च प्रियहितप्रमाणदृष्टार्थवचनम् । चकारत्रयमुक्तानामनुक्तस्यास्तेयस्य च संग्रहार्थम् । यत्नेन महता प्रयत्नेन । हे रक्षतो हे जनाः स्वस्याभीष्टार्थचिन्तका रक्षणं कुरुत ब्रह्मचर्यादेः । उकारस्तत्र वक्ष्यमाणे चैकस्मिन्पर्याये छान्दसः प्लुत्यर्थो वा परेषां कथनार्थः । हे रक्षतो हे रक्षतो । व्याख्यातम् । त्रिरुक्तिस्त्वादरार्था । प्राणात्ययेऽप्येतानि न परित्याज्यानीत्यादराभिप्रायः । इतिः उपदेशसर्वस्वपरिसमाप्त्यर्थः ॥ ३॥
शंदौ० इदानीमेतेषामेव रक्षणार्थमुक्तमपि पारमहंस्यलक्षणं धर्म पुनर्विशेषान्तरेण वक्तुमाह । अथ यथोक्तेन प्रकारेण प्रैषोच्चारणदण्डग्रहणानन्तरम् । अतः, यतो नैतावता पुरुषार्थः किं तु ब्रह्मचर्यादिरक्षणेन । ब्रह्मचर्यादिरक्षणं च स्वधर्मानुष्ठानेना
१ क. 'यं चास्तेयं च । २ घ. 'तीयश्चकारोऽनु । ३ घ. र्थः । ए । ४ घ. °सध।
For Private And Personal