SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणशंकरविरचितदीपिकाभ्यां समेता- 9 सखा मा गोपायौजः सखा योsसीन्द्रस्य वज्रो - सीत्यनेन मत्रेण कृत्वोर्ध्वं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनमाचरे 1 ओजो नाम शुक्रस्य परिणामो धातूनामष्टमी दशा तत्फलं तेजः शरीरशक्तिः । सखा यो यस्त्वं सखाँ दृष्टेऽदृष्टे कर्मण्यसि भवसीन्द्रस्य परमेश्वरस्य वज्रोऽसि भयंकरोऽस्येतावत्प्रतीकम् । मन्त्रस्तु शाखान्तरे संपूर्णः पठितः -- “ इन्द्रस्य वज्रोडासे वार्त्रघ्नः शर्म मे भव । यत्पापं तन्निवारय" इति । इतिशब्द इन्द्रस्य वज्रोऽसीति मन्त्रप्रतीकार्थः । कृत्वोर्ध्व वैणवं दण्डमिति । अनेन मन्त्रेण वैणवं दण्डमूर्ध्वमुपरि दक्षिणकरे निधायेत्यर्थः । अत एव संन्यासोपनिषद्यूर्ध्वगोपायुरिति दण्डविशेषणम् । वासुदेवोपनिषदि चोर्ध्वदण्ड्यूर्ध्वरेता य ऊर्ध्वपुण्ड्रयूर्ध्वयोगवित् । स ऊर्ध्वं पदमाप्नोति यतिरूर्ध्वचतुष्कवानिति । कौपीनं लज्जा हेतुत्वात्कूपप्रवेशनमर्हति । कौपीनं पुलिङ्गम् । तन्मात्राच्छादकत्वाद्यतिवासोऽपि कौपीनम् “शालीनकौपीने अधृष्टाकार्ययोः" इति साधुस्तदपि परिग्रहेत् । औषधवत्प्रीतिं विना शरीरस्थित्यर्थ मशनं भोजनमाचरेत् । अभ्यासस्त्वादरार्थः । सर्वथा रसासक्तिं न कुर्यात्त्यागवैयर्थ्यमयादित्यादरः । इदानीं येषामकरणे महापातकिवत्पातित्यं तानि पञ्चाssवश्यकान्याह - को नाम निर्वृणोऽपि स्वपुत्रान्हन्ति मत्पुत्रसमाचमाः प्रजाः कथमहं तासां हिंसां कुर्या मिति । इदानीं दण्डादाने मन्त्रमाह । सखा यथा लोके सखायं सखा मरणान्तं न परित्यजति तथा त्वामहं न परित्यजामि त्वं च मां न परित्यज मा मां सखित्वेन स्वीकुर्वाणं गोपाय गोसर्पादिभ्यो ऽस्मिँल्लोके विपरीतप्रवृत्तेश्च रक्षणं कुरु । ओजः शरीरस्यान्तरं तेजोवीर्यवत्कर्मकारणं सखा यः सखा यो दृष्टादृष्टे कर्मणि । असि भवसि । इन्द्रस्य त्रैलोक्यस्य गोप्तुः परमात्मनः । वज्रः शत्रुभयंकरः । असि भवसि । इदं मन्त्रप्रतीकम् । मन्त्रस्तु शाखान्तरे पठितोऽयम् – “इन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव । यत्पापं तन्निवारय” इति । इत्यनेन । इतिशब्दश्चेन्द्रस्य वज्रोऽसीतिमन्त्रप्रतीकार्थः । अनेनात्र पठितप्रतीकेन शाखान्तरस्थेन मत्रेण स्वस्य मन्तुस्त्राणनान्मन्त्रस्तेन कृत्वा विधायोर्ध्वमुपरिष्टाद्दक्षिणे करे निधायेत्यर्थः । वैणवं वेणुजं दण्डं दुर्जनदमनकारणम् । कौपीनं कुत्सितस्य पीनस्य मांसस्याssवरणमिदं कौपीनं परिग्रहेत्परिगृह्णीयात् । औषधवद्यथा प्रीतिमन्तरेणौषधं भक्षयन्ति जनाः शरीरस्थित्यर्थं तद्वत्परमहंसः, अशनमाचरेदन्नस्य सर्वतो भक्षणं कुर्यात् । औषधवदशनमाचरेत् । व्याख्या १ ख. घ. ब्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेत्य' । २ नं च प इति क्वचित्पुस्तके । ३ घ. खादृष्टे क । ४ घं. 'नीं यदभावेन महा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy