________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आरुणेय्युपनिषत् । त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया सं.
न्यस्तं मयेति त्रिः कृत्वाऽभयं सर्वभूतेभ्यो मत्तः सर्व प्रवर्तते । संन्यासप्रैषानाह-संन्यस्तं मयेति । त्रिः कृत्वेति । पाठेनैव त्रित्वे लब्धे त्रिरितिवचनं त्रयाणामपि त्रिःपाठार्थम् । तत्रायमाम्नायः । एते त्रयोऽपि प्रैषाः सव्याहृति. कास्त्रिमन्द्रमध्यमोत्तमस्वरैरुच्चारणीया लोकत्रयीं श्रावयितुं त्रिरभिधानं प्रैषोच्चारणेन यत्त्यक्तं तत्पुनरभिलषन्बध्यो निन्द्यो वध्यश्चेति बोधयितुम् । सम्यगपुनरादेयतया न्यस्त संन्यस्तमित्यर्थः । प्रैषानन्तरमभयं सर्वभूतेभ्यो मत्त इति ब्रूयात् । मत्तः प्रकृतप्रैषात्सर्वभूतेभ्योऽभयमस्तु । कुतोऽभयं दत्तमित्यत आह-सर्व प्रवर्तत इति । मत्त इत्येव मत्त एव ब्रह्मणो यतः सर्व प्रवर्तते न हि जनयितुरेव भयं युक्तमिति भावः । इदानी दण्डादाने मन्त्रमाह-सखेति । त्वं सखाऽवञ्चकोऽसि मा मां गोसादिभ्यो गोपाय । तसूत्रं त्यजेत्परित्यजेत् । सूत्रे सूत्रान्तरप्रक्षेपस्य वैयर्थ्यादित्यर्थः । विद्वानहं ब्रह्मास्मीतिज्ञानवान्कृतब्रह्मसाक्षात्कार इत्यर्थः । इदानी विविदिषायामपि सूत्रपरित्यागं दर्शयति । यः प्रसिद्धो नित्यानित्यविवेकादिसंपन्न एवं विदुषः सूत्रधारणस्य वैयर्थ्यम् । इत्युक्तेन प्रकारेण वेद जानाति सोऽपि त्रिवृत्सूत्रं त्यजेदिति संबन्धः । इदानीं सूत्रत्यागार्थं संन्यासप्रैषानाह । संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया । सम्यन्य. स्तं संन्यस्तं परित्यक्तम् । लोकद्वयभाविकर्मफलं विनाशवत्तन्मया ब्राह्मणेन नित्यानित्यवस्तुविवेकवता शमदमादिसाधनसंपन्नेनेहामुत्रार्थभोगविरागवता मुमुक्षुणा हे लोकत्रयनिवासिनः शृणुतेति लोकत्रयीं श्रावयितुं त्रिरभिधानम् । तथाच महाजनानां संसदि यथा स कश्चन गृहस्थो ब्रूते शृणुत ब्राह्मणाः सराजानः सप्रजा इदं गृहं क्षेत्रं वा मया परित्यक्तमित्येवं त्रिरभिधाय पश्चात्तद्विषयेऽभिलाषं कुर्वन्निन्धो बध्यश्च जायते तद्वल्लोकत्रयीसमक्षं मया संन्यस्तमित्युक्त्या तद्भोगस्याभिलाषं स्वीकारं कुर्वन्निन्द्यो बध्यश्च भवति लोकत्रयनिवासिभिः । ततो मया संन्यस्तमिति प्रैषमुच्चार्य न कदाचिदपि कस्मिन्नपि देशे कस्मिंश्चिदपि काले केनापि प्रकारेणाभिलाषं कुर्यादिति तात्पर्यार्थः । एते प्रैषास्त्रयोऽपि सव्याहृतिकास्त्रिर्मन्द्रमध्यमोत्तमस्वरैरुच्चारणीयाः। तदेतदाह । इत्यनेन प्रकारेण । त्रिः कृत्वा मन्द्रमध्यमोत्तमस्वरैस्त्रीनपि प्रैषांस्त्रिवारमावृत्यानन्तरमभयं भयराहित्यम्। सर्वभूतेभ्यः स्थावरजङ्गमेभ्यः । मत्तः कृतप्रैषात्कर्मणा मनसा वाचा गच्छत्विति शेषः । अत्र मत्त इत्यन्ते स्वाहेति पठित्वा जलेन पूर्णमञ्जलिमनेन मन्त्रेण प्राच्यामुदीच्यां वा प्रक्षिपेत् । मत्त इति पदं मन्त्रस्थं देहलीप्रदीपन्यायेन हृदये निधाय हेतु. माह । सर्व स्थावरजङ्गमं निखिलं प्राणिजातं मत्तः प्रवर्तत उत्पद्यते । अयमाशयः ।
* 'एवमिति वेद' इति शंकरानन्दपाठः ।
१ ख. गोपाय स।
For Private And Personal