SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९० नारायणशंकरविरचितदीपिकाभ्यां समेता दुपनिषदमावर्तयेदुपनिषदमावर्तयेत् ॥२॥ खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रं ब्रह्म सूत्रमहमेव विद्वांस्त्रिवृत्सूत्रं हितस्याऽऽवृत्तिर्नेत्याह-उपनिषदमिति । ज्ञानप्रतिपादकं भागमभ्यसेत् । वाक्याभ्यास आदरार्थः । संन्यासो ह्युपनिषदावर्तनाथस्तदनावृत्तौ ज्ञानापाटवेन पातित्यं स्यादित्यादरः ॥ २॥ नादी तत्रापि परमामुपनिषदमावृत्त्यर्थमाह-खल्वहं ब्रह्मेति । इदं महावाक्यं सत्यं ज्ञानमनन्तं ब्रह्म तत्त्वमसीत्यादिवत् । खलु निश्चितमहमहंकारोपलक्षितं शोधितजीवचैतन्यं ब्रह्मैव न ततोऽन्यदिति ज्ञाते सर्वानर्थनिवृत्तिः परमानन्दावाप्तिश्च फलम्। ननु प्रपञ्चभेदे सति कथमनर्थनिवृत्तिरित्याशङ्कय सूत्रपटन्यायेनाभेदं वक्तुं ब्रह्मणः सूत्ररूपकमाह-- सूचनात्सूत्रं ब्रह्मेति । तन्तुर्हि स्वात्मनैवाऽऽतानवितानभूतेनौबुधं प्रत्यापातरमणीयं पटं सूचयञ्जनयन्सूत्रं भवति तथा ब्रह्मापि जगत्पटसूचनासूत्रं कारणातिरिक्तं कार्य नास्तीति ब्रह्मैव सत्यमित्यर्थः । ननु सूचयितुर्मायया जीवो मुह्येदेवेत्याशङ्कय सत्यमज्ञान इदं स्यादुत्पन्ने तु ज्ञानेऽहमेव सूचयिता कथं मुह्येयमित्याह-सूत्रमिति । यतो विद्वानतोऽ. हमेव सूत्रमित्यन्वयः । मायापतिनैक्येनानुगृहीतस्य कथं भायाभिभव इत्यर्थः । त्यागमुपसंहरति-त्रित्सूत्रं त्यजेद्विद्वान्य एवं वेदेति । य एवं खल्वहं ब्रह्मेति वेद स विद्वांत्रिवृत्सूत्रं त्यजेदित्यन्वयः । विद्वत्संन्यासेनैवोपसंहारः । इदानी सूत्रत्यागा) ङ्कय नेत्याह । उपनिषदमहं ब्रह्मास्मीति तादात्म्यलक्षणेन सामीप्येनाऽऽत्मानं गमयित्वा नितरामहंममादिग्रन्थीशिथिलीकृत्याविद्यां सकार्यसंस्कारां सादयति विनाशयतीत्युपनिषद्ब्रह्मविद्या तत्प्रतिपादिका श्रुतिरपि सा ताम् । आरणेष्वपि ब्रह्मप्रतिपादको भागोऽभ्यसनीयो न त्वन्य इत्यर्थः । आवर्तयेदुपनिषदमावर्तयेत् । व्याख्यातम् । वाक्याभ्यासस्त्वादरार्थः । संन्यासो ह्युपनिषदामावर्तनार्थं तदनावृत्तौ पातित्यं स्यादित्यादराभिप्रायः ॥ २ ॥ शंदीनन्वहं ब्रह्मास्मीत्यनुसंधानेनास्य संध्या भवतु तथाऽप्ययज्ञोपवीतसूत्रः कथमयं • ब्राह्मणः स्यादित्यत आह । खलु निश्चितं प्रसिद्धं वा । अहं कर्तृत्वाद्यभिमानशून्यः । आनन्दात्मत्वेन निरतिशयप्रेमालम्बनः । ब्रह्म सत्यज्ञानादिलक्षणं जगज्जन्मादिकारणम् । सूत्रं जगत्पटारम्भकत्वेन । तदेतदाह । सूचनाजगत्पटारम्भलक्षणात्सूत्रम् । ब्रह्म । स्पष्टम् । अस्तु तथा ब्रह्म किं तवेत्यत आह । सूत्रं सूत्ररूपं ब्रह्म । अहमेवोक्तरूपमहमेव न तु मत्तोऽन्यत् । तत्र हेतुमाह । विद्वान् । इदमहमस्मोति जानाति यतः । इदानीं श्रुतिः स्वोपपत्तिमाह । त्रिवृत्सूत्रं सूत्ररूपोऽयं यस्मात्रिवृन्नवगुणितरूपं यज्ञोपवी. १ घ. 'नापा । २ ख. 'थाऽपि । ३ घ. तित्वेन गृ । ४ घ. माययाऽभि । ५ ख. 'त्यन्वयः । त्या । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy