SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेताच स्ववाचाग्नौ *समारोपयेदुपवीतं भूमावप्सु वा विसृजेत्कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत्पात्रं विसृजेत्पवित्रं विसृजेद्दण्डांचे लौकिकानीश्व तूश्रौतस्मार्ताग्नीनन्तेष्टिं कृत्वोदराग्नौ सम्यगंग्न इत्यादि मन्त्रेण त्रिःपानपुरःसरं समारोपयेत् । ज्ञानिनोऽर्थप्राप्तेऽपि त्यागे चात्वाले निवृत्तप्रयोजनविषाणादिप्रक्षेपवदियमग्न्यादीनां शास्त्रीया प्रतिपत्तिः । गायत्री सवितृदेवत्यां चशब्दादन्यदपि मन्त्रजातं स्ववाचाग्नौ स्वीया वाचा वागेवाग्निस्तत्र 'भूः सावित्री प्रविशामि' इत्यादिमन्त्रैः समारोपयेत् । उपवीतं शुद्धोदकालाभे भूमौ शुद्धायां तल्लाभे शुद्धास्वप्सु वा 'भूः समुद्रं गच्छ स्वाहा' इति मन्त्रेण विसृजेत् । वाशब्दो व्यवस्थितविकल्पे । कुटीचरः कुटीचकत्रिदण्डी पुत्रगृह एव भिक्षानिरंतो यः सः । उपलक्षणमिदं बहूदकहंसयोरपि । ब्रह्मचारिग्रहणं तस्य विशेषणम् । आश्रमिब्रह्मचारिण उक्तत्वात् । पालाशं बैल्वमित्यादिना तद्दण्डादित्यागस्य वक्ष्यमाणत्वाच्च । कुटुम्बमिति । पुत्रभिक्षानिरतस्य कुटुम्बे वाससंभवात् । पात्रं भिक्षापात्रम् । पवित्रं जलशोधनवस्त्रम् । दण्डांस्त्रीन्वैणवान् । चात्पूर्ववस्त्रादिकमपि । लौकिकाग्नीनिति । त्रिदण्डिनो वैश्वदेवाधिकारात् । लोकाग्नीश्चेति पाठे स्वतपोर्जितान् । चीत्त गायत्रीछन्दस्का चशब्दादन्यदपि मन्त्रजातम् । स्ववाचाग्नौ स्वस्य संन्यासस्य कर्तुर्वाचा वाग्देवताऽग्निः स्ववाचाग्निस्तस्मिन् 'भूः सावित्री प्रविशामि' इत्यादिमन्त्रैः समारोपयेत् । व्याख्यातम् । उपवीतं यज्ञोपवीतं भूमौ वाऽप्सु वा विसृजेत् । वाशब्दो विकल्पार्थो विकल्पश्च व्यवस्थितः । मनोनुकूलानामपामभावे मनोनुकूलायां भूमौ सतीषु तासु च तत्रैव 'भूः समुद्रं गच्छ स्वाहा' इत्यनेन मन्त्रेण परित्यजेत् । इदानीमाश्रमविशेषाद्विशेषमाह-कुंटीचरस्त्रिदण्डी पुत्रभिक्षानिरतः । उपलक्षणमिदं बहूद. कस्य हंसस्यापि यथायोगम् । ब्रह्मचार्युक्तः । उपलक्षणमिदं गृहस्थवानप्रस्थयोः । कुटुम्ब मातृ(ता)पित्रादिकं विसृजेब्रह्मचारी परित्यजेत् । पात्रं भिक्षापात्रम् । विसृजेत् । व्याख्यातम् । पवित्रं जलपवित्रं वितस्तिमात्रं श्वेतम् । विसृजेत् । व्याख्यातम् । कुटीचकस्य कुटुम्बपरित्यागोऽप्यविरुद्धः पुत्रभिक्षानिरतस्य कुटुम्बे वाससंभवात् । दण्डांस्त्रीन्वैणवान् । कुटीचको विसृजेदित्यध्याहारः । लोकाग्नीलौकिकाग्नीन् । ब्रह्मचारी दण्डमे ___ * समारोपयेदुपवीतं शिखां भूमौ, इति क्वचित्पुस्तके पाठः । १ घ. येत्कु । २ क. जेद्द। ३ क. श्च विसृजेल्लोका । ४ घ. गग्नेरित्या । ५ घ. 'णापक्षे'। ६ घ. 'स्त्रीयप्र । ७ क. 'तं शिखां शु। ८ घ. °रतः । उ । ९ घ. चादि । १० कुटीचक इति पाठः। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy