________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८७
आरुणेय्युपनिषत् । च विसर्जयेद्दण्डमाच्छादनं च परिग्रहेच्छेषं विसृजेच्छेषं विसृजेदिति ॥ १॥ गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ समारोपयेद्गायत्री
इत्याशङ्य ग्राह्याण्याह-दण्डमिति । गोसर्पनिवारणार्थं दण्डं लज्जाशीतातपवृष्टिबाधानिवारणार्थमाच्छादनं च । चकाराज्जलपात्रं च । परिग्रहेत् । व्यत्ययेन शप् । परिगृह्णीयात् । देहोपयोगि चेद्ग्राह्यं तर्हि मञ्चको योषादयोऽपि प्राप्नुवन्तीत्यत आह-शेषं विसृजेदिति । मञ्चकयोपादि प्राणात्ययेऽपि न गृह्णीयादित्यादरार्थोऽभ्यासः ॥ १ ॥ नादी० अधिकारिणो निर्दिशति-गृहस्थ इत्यादिना । लौकिकाग्नीलोकप्राप्तिहे
च । न तलमतलम् । भूमिमारभ्याधोऽधोऽतलादीनि सप्त पातालानि । सप्तानामतलादिशब्दानां ब्रह्माण्डशब्दस्य च द्वंद्वसमासेनैकपद्यादेकवद्भावः । चकाराद्विद्यमानविषयं मनोरथमपि । विसर्जयेद्विसन । तव संवन्धि यत्किंचित्तत्सर्वं परित्यजेत्यर्थः । तर्हि किं शरीरयात्राया अपि परित्याग इत्याशङ्कय नेत्याह-दण्डं गोसर्पनिवारणं वैणवम् । आच्छादनं च कौपीनयुगुलं कन्थादिकं लज्जाशीतातपवृष्टिबाधानिवारकमित्यर्थः । परिग्रहेत्परिगृह्णीयात्स्वीकुर्याद्भवान्भवादृशोऽन्योऽपि । ननु यथैतद्दण्डाच्छादनादिकं स्वीकार्य देहबाधानिवारणाय तथा मञ्चकयोषिदादिकमपीत्याशङ्कय नेत्याह-शेषं दण्डाच्छादनादिव्यतिरिक्तं मञ्चकयोपिदादिकं विसृजेत्परित्यजेत् । शेषं विसृजेत् । व्याख्यातम् । आदरार्थं वाक्याभ्यासः । प्राणात्ययेऽपि मञ्चयोषिदादीनां परिग्रहो न करणीय इत्यादराभिप्रायः ॥ १ ॥
शंदी० एवं सामान्येन संन्यासं पारमहंस्यलक्षगमभिधायेदानीमुक्तस्यैव व्याख्यानरूपमुत्तरंविशेषमाह-गृहस्थः स्नातकः सदृशी भार्यां प्राप्य श्रौतस्मातकर्मानुष्ठानपरः । ब्रह्मचारी, उपकुर्वाणो नैष्ठिकः । वानप्रस्थो वा सदारो विदारो वा वनं प्रविष्टस्तृतीयाश्रमी । वाशब्दो वैराग्यावधित्वमसति यावज्जीवसंकल्प आश्रमान्तरविषये दर्शयति । लोकाग्नीलोकफला लौकिका वाऽग्नयस्तान् । साग्निको निरग्निको वा संन्यासाङ्गभूतामिष्टिं विधायोदराग्नौ जाठरजातवेदसि ‘या ते अग्ने' इत्यादिमत्रेण त्रिः पानपुरःसरं समारोपयेत्समारोपणं कुर्यात् । गायत्री च प्रत्यक्षजप्यमानां संध्यात्रये सावित्री
१ क. च कौपीनं प० । २ घ. स्थो वोपवीतं शिखां भूमावप्सु वा विसृजेल्लौकि । ३ घ. त्रं पा ४ ख. "कोष्णीषा।
For Private And Personal