SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 65 चैत्यालये नालोयते साधूपाश्रये न वन्दते दृष्टमपि साधुलोकं नामन्त्रयति श्रावकजनं निवारयति खग्टहे दानादिप्रवृत्तिं पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः विधत्ते पृष्ठतस्तदवर्णवादादिकं ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाञ्जनं निदधते / कथं बहि म्यादौ कथञ्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं दर्शयन्ति हितबुद्धिं प्रख्यापयन्याञसभावमुत्पादयस्यविप्रतारकप्रत्ययं पुरुषविशेषं तद्भावं चोपलक्ष्य वदन्ति च भद्र किं नागम्यते साधूपाश्रये किन्न विधीयते भवतात्महितं किं विफलौक्रियते मनुष्यभवः किन्न विज्ञायते शुभाशुभविशेषः किमेत्यनुभूयते पशुभावो भवता वयं हि भवत एवेदं पथ्यमिति भूयोभ्योऽभिदध्महे तदिदं सर्व शलाकाञ्जनस्थापनकल्यं विज्ञेयं मज्ञानहेतुतया कारणकार्योपचारादिति। तदेतदाकर्ण्य ततोऽसावष्टोत्तराणि विरचयन्नेवं ब्रूयात् भो भो श्रमणा गाढमक्षणिकोऽहं न मरति मे भगवत्समीपमागच्छतो निर्व्यापाराणां हि धर्मचिन्ता भवति मादृशां पुनरन्यत्र गतानां मौदति कुटुम्बादिकं न प्रवर्त्तते सहेतिकतव्यतेति न वहति वाणिज्यं न संपद्यते राजसेवा विस्तरयति कृषिकर्मादिकमिति / तदेतत्समस्त शिरोधननमभिधीयते / ततस्तद्वचनमाकपर्य करुणापरौतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीयः इत्यालोच्येत्थमाचदौरन् वत्स यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि / तद्वचनमेकं द्रष्टव्यास्त्वयाहोरात्रमध्येऽवश्यं तयोपाश्रयमागत्य सकृत्साभव इति / ग्टह्यतामभिग्रहो नान्यदहं किञ्चिदपि भवन्तं भणि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy