________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / यति हतौयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम परमानमेतत्पुनः सम्यङ् निषेयमानं निःशेषरोगगणं समूलकाषं कषति / तथा पुष्टिं जनयति तिं वर्द्धयति बलमुज्वलयति वर्णमुत्कर्षचति मनःप्रमादं संपादयति वयस्तंभं विधत्ते सवौर्यतां करोति पौर्जित्यं प्रवणयति किम्बहुना अजरामरत्वमपि निःसन्देहमेतत्मनिधापयति तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपखिनं व्याधिभ्यो मोचयामौति तेन मनमि सिद्धान्तः स्थापितः। तदेतत्सद्धर्माचार्योऽपि जौवगोचरं समस्तं चिन्तयत्येव / तथा हि। यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जौव. केवलं प्रबलकर्मकलाकुलितचेताः सन्मार्गात्परिभ्रष्टस्तदा भवति गुरोरयमभिप्रायः यथा कथं पुनरेषोऽस्माट्रोगस्थानौयात् कर्मजालन्मोच्यते पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतमा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषभत्रयकल्पं तन्मोचनोपायः प्रतिभासते नापरः। तत्रेह ज्ञानमञ्जनं विज्ञेयं तदेव परिस्फुटदर्शितया विमलालोकमुच्यते तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं तदेव जौवादिपदार्थगोचरश्रद्धानहेतुतया तत्वौतिकरमभिधीयते / यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटौ कोटिमात्रमवतिष्ठते समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते तेन समस्तगदतानवकारकं कर्मणा मिह रोगकन्त्यत्वात् तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहण चातुर्यमाधत्ते। तदेव च महोन्माददेश्वं मिथ्यात्वमुद्दलयतौति / चारित्रं For Private And Personal Use Only