________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 उपमितिभवप्रपञ्चा कथा / देशनयाऽन्यथा वा विनष्टभट्रकभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्मतो भावो यदुत न भाजनमेषोऽकल्याणभाजनतया भगवद्धर्मस्य नोचितो कुगतिगामितया सुगतिगमनस्य न परिकर्मणोयो दुर्दलकल्पतया सद्धर्मचेतमा ततोऽत्र मोहोपहतचेतमि विफलो मे परिश्रम इति। यथा च पुनर्विमृशता तेन रसवतीपतिना निश्चित यदुत नास्य वराकस्यायं दोषः यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इति कृत्वा वेदनाविहलो न किञ्चिच्चेतयति। यदि पुनरेष नौरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति मोऽमृतास्वादमेतत्परमानं दयीमानं कथन्न ग्रहीयादिति / तदेतदाचार्य स्थापि पर्यालोचयतो मनमि वर्त्तत एवेति। यदुत / यदेष जीवो ग्ध्यति विषयादिषु गच्छति कुमार्गेण नादत्ते दीयमानं मदुपदेशं नेषोऽस्य वराकस्य दोषः किं तर्हि मिथ्यात्वादीनां भावरोगाणां तैर्विसंस्थुलचेतनोऽयं न किञ्चिन्जानौते यदि पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवतेत / यच्च तेन महानसनियुक्न पर्यचिन्ति / यथा कथं पुनरेष रोरो नौरोगः स्यात् ततो मनसि निरूपयता तेन पुनः पर्यकत्यि। श्रये विद्यत एवास्य रोगनिराकरणोपायः। यतोऽस्ति मम चारुभेषजवतयं तद्यथा एकं तावदिमलालोकं नाम परमाञ्जनं तद्विधानेन प्रयुज्यमानं समस्तनेत्ररोगानाशयति सूक्ष्मव्यवहितातौतभाविभावविलोकनदक्षं चक्षुः संपादयति / तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तार्थादक तत् पुनर्विधिना खाद्यमानं समस्तगदवाततानवं विधत्ते। दृष्टश्चाविपरीतार्थग्रहणचतुरतां कुरुते विशेषतः पुनरुन्मादमुद्दल For Private And Personal Use Only