________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / बुद्धधर्मसङ्घरारणः एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीत्येवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्कभिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदोयमर्वस्वं लातुमभिकाङ्क्षति / यहा। क्रियतां सङ्घभक्तं भोज्यन्तामृषयो दौयन्तां सुन्दरखाद्यानि उपनौयन्तां मुखक्षेपणानि दानमेव ग्रहस्यस्य परमो धर्मः तत एव संपाद्यते संसारोत्तार इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो दिगम्बर व मदीयधनमेष श्रमणो निर्वाहयिष्यति। अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपञ्चकथनरूपोऽत्यादरः स्यात्तदिदमिह तत्वं तावदेवैते सुन्दराः श्रमणा यावन्नोपलभ्यन्ते यावच्चैतेषां न वशवर्तिभिर्भूयते वशवतिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यैते मायाविनो नाना वचनरचनया विप्रतार्य मदीयपर्वखमपहरन्ति नात्यत्र सन्देहः / ततो मयाऽधुनानेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि। किमदत्तप्रतिवचनः समुत्थाय गच्छामि। उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि। आहोखिधौरहरणादिभिः प्रलोनं मे द्रव्यजातं नास्त्येवाधुना किञ्चिन्न दौयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि। उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनर्मह्यं किञ्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि किं वा प्रकाण्डकथनजनितक्रोधसूचिकां भृकुटिं जनयामीति। न जाने कथमेष श्रमणो मदचनप्रवणमना निवास्मादुरध्यवसायान्मम मोक्षं दास्यतौति। न पुनरमौ वराको गाढमूढात्मतया खल्वेतलक्षयति यथै ते भगवन्तः सद्धर्माचार्या विदिततुषमुष्टि निःसारसंमारगर्भार्था अतुलसन्तोषामृतप्तान्तःकरणा अवगत 12 For Private And Personal Use Only