________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ce उपमितिभवप्रपञ्चा कथा / एवष लोकप्रकाशः श्रमणो मम पुरतो धर्मगुणानुपवर्णयति मांचाक्षिप्तचित्तमुपलभ्य दानं दापयति शीलं ग्राहयति तपश्चारयति भावनां भावयति तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः अज्ञातमस्ति मे सुन्दरकलत्रमङ्ग्रहः विद्यते नानाकारो द्रविणनिचयः सम्भवति भूरिरूपो धान्यप्रागभारः समस्ति सम्पूर्ण चतुष्यदकुप्यादिकं ननं तज्ज्ञातमेतेन तदेषोऽत्र तात्पर्यार्थी यदुत दीक्षा ते दीयते रजस्ते पात्यते बौजदाहस्ते क्रियते कुरु लिङ्गपूरणं विधेहि गुरुपादपूजनम् निवेदय स्खकलत्रखधनकनकादिकं समस्तमर्वस्वं गुरुपादेभ्यः। पुनस्तैरनुज्ञातमनुभवितेतस्त्वमेवं विदधानः पिण्डपातेन शिवीभविष्यमौत्येवं वचनरचनया विप्रतार्य शैवाचार्य व मामेष श्रमणको मुमुषिषति यदि वा भूरिफलं सुवर्णदानं महोदयं गोदानमक्षय्यं पृथिवौदानं अतुलं पूर्त्तधर्मकरणमनन्तगुणं वेदपारगे दानं यदि पुनर्विज्ञायमाना निर्गतवत्सखरमुखा सचेला कनकश्टङ्गी रत्नमण्डिता मोपचारा दिजेभ्यो दीयते ततश्चतुरुदधिमेखला सग्रामनगराकरा मलकानना पृथिवी तेन दत्ता भवति मा चाक्षय्यफला संपद्यत इत्येवं मुग्धजनवञ्चनपरैः कूटश्लोकरचितग्रन्थैमी विप्रलभ्य दिजातिरिव नूनमेष श्रमणो मे द्रविणजातं जिहीर्षति / अथ वा / कारय रमणीयतरान् विहारान् वासय तेषु बहुश्रुतान् पूजय मंचं प्रयच्छ भिक्षुभ्यो दक्षिणां मौलय सङ्घसम्बन्धिनि कोशे स्वीयं द्रविणजातं निक्षिप सङ्घसम्बन्धिन्येव कोष्ठागारे स्वधान्यसञ्चयं समर्पय सङ्घसम्बन्धिन्यामेव संज्ञातौ स्वकीयं चतुष्पदवर्ग भव For Private And Personal Use Only