________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम प्रस्तावः। न जाने यावदेवं निष्ठितकुविकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्त्तते प्रबलं भयं प्रसप्पति तृष्णा शुष्यति हृदयं विकलौभवत्यन्तरात्मा स्तब्धातिरेकाभिभूतचित्तवृत्तेः संरक्षणानुबन्धि प्रादुर्भुतं महारौद्रध्यानं निरुद्धः करुणाग्रामप्रसरः मौलिते विलोचने नष्टा चेतना न जानौते क्वाहं नौतः कुत्र वा स्थितः केवलं निखात काष्ठकोल वोर्डाकारोऽवतिष्ठते सा तु तद्दया रहाणेदं भोजनमिति भूयो भूयः समाकुला व्याहरति स्म / तथापि स निष्पएयको द्रमकः मर्वरोगकरं तुच्छ यत्तदात्मीयं कदशनं तत्संरक्षणानुबन्धेन नष्टावा तां कन्यकां समस्तरोगहरामृतास्वादपरमानदानार्थं व्याहरन्तौं वराको नावबुध्यते तदिदं समस्तं जीवेऽपि समानमवगन्तव्यम् / तथा हि। यदाऽस्य हितचिकोर्षया भगवन्तः सद्धर्मगुरवो विस्तरेण धर्मगुणानुपवर्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिश्यन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमःकाचपटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदौधितिप्रमरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादमन्तापविधुरितहृदयः प्रबलचारित्रमोहनौयरोगकदम्बकविहलचेतनस्तत्र विषयधनकलत्रादिकया गाढमूर्द्धयाभिभूतचित्तवृत्तिः सन्ने चिन्तयति यावदहं पूर्व धर्माधर्मविचारपर्यषणां नाकर्ष तावदेते श्रमणाः क्वचिदुपलभ्यमाना अपि न मम वार्तामपि पृष्ठवन्तो यद्यपि कथञ्चित् क्वचिदवसरे मां धर्मगोचरं किञ्चिद् ब्रूयः तथाप्यनादरेण वचनं वा हे वा इदानौं पुनर्मी धर्माधर्मजिज्ञासापरमवगम्य गतोयमस्माकमादेशगोचरमति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमपृष्ट For Private And Personal Use Only