________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / विषयविषविषमविपाका मोक्षकाङ्क्षकतानेन रेतसा सर्वत्र समवृक्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गोपदेशदाने प्रवर्त्तमानाः मन्तो म देवेन्द्रद्रमकयो विशेष लक्षयन्ति न महर्द्धिविबुधनिर्द्धनपुरुषयोर्विभागं कल्पयन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां प्रवर्त्तन्ते समानमेषां चेतसि विवर्त्तते परमैश्वर्थं दारिद्र्येण तुल्या महाहरनराशयो जरठपाषाणनिकरण सदृशा उत्तप्तहाटककूटा लोष्टपूगेन सदृशा हिरण्यस्तोमा धूलिपुञ्जेन मनिभो धान्यनिचयः क्षारराशेस्तुल्यं चतुष्पदकुप्यादिकं निःमारकचवरेण न विशेषो निर्जितरतिरूपाभिरपि ललितललनाभिः सह जरत्काष्ठस्तम्भानामिति / एवञ्च स्थिते। नेतेषां परहितकरणकव्यसनितां विमुच्यापरसदुपदेशदाने प्रवर्त्तमानानां कारणमुपलभ्यते / यतः स्वार्थसम्पादनमपि परमार्थतः स्वाध्यायध्यानतपश्चरणकरणादिना द्वारान्तरेणैव सम्पद्यत एव / न तदर्थमप्येतेषामच प्रवृत्तिः / दुरापास्तावकाशा लाभादिका शेषाकाङ्क्षा। न चैतदेषकोऽन्ध्यान्धीकृतबुद्धिर्जानौते। ततोऽयं जीवोऽनवगतमगुरूदाराशयोऽत्यन्ततुच्छवचित्तदुष्टताऽनुमानेन तश्चित्तमपि तथारूपं परिकलयन् महामोहवशेन तानत्वदर्शनैः शैवदिजातिभौ रक्तभिचुदिगम्बरादिभिस्तुल्यान् कल्पयति / सम्भवन्ति च भिन्नकर्मग्रन्थेरपि दर्शनमोहनौयपुञ्जत्रयकरणेन यथा पुनर्मिथ्यात्वपुञ्जे वर्त्ततेऽयं जौवस्तदैवंविधाः कुविकल्पा इति / ततश्च। तैराकुलौकृतहृदयस्यास्य जीवस्य पुनः प्रसर्पति मिथ्यात्वविषं ततस्तदशगोऽयं जीवः शिथिलपति मौनीन्द्रदर्शनपक्षपातं विमुञ्चति पदार्थ जिज्ञासामवधौरयति For Private And Personal Use Only