________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 76 च्छिखरे वर्त्तते / म एव हि परमेश्वरो युगपदमुं समस्तसंसारविस्तारं विचित्रनगरव्यापाराकारमलोकाकाशञ्च तइहिर्भागकल्प केवलालोकेन करतलगतामलकन्यायेनावलोकयति / स एव चानन्तवीर्यसुखपरिपूर्णतया मततानन्दो सौजया ललते नापरो भवगर्तमध्यपतितजन्तुलौलाललनस्य परमार्थतो विडम्बनारूपत्वात् / यथा च स कथानकोतस्तेन महाराजेन महारोगभराक्रान्ततया गाढवीभत्सदर्शन इति कृत्वा करुणया विशेषेणावलोकित इत्युक्तम् / तदचैव द्रष्टव्यम् / यदायमात्मा निजभव्यतादिपरिपाकवशादेतावौं कोटिमध्यारूढो भवति तदास्य भवत्येव भगवदनुग्रहः न तयतिरेकेण यतो मार्गानुसारिता संपद्यते / तदनुग्रहेणैव भवति भावतो भगवति बहुमानो नान्यथा। स्वकर्मक्षयोपशमादीनां शेषहेवनामप्रधानत्वात् / ततोऽयमात्मा तस्यामवस्थायां वर्तमानोऽमुमर्थमाकलय्य भगवता विशेषेणावलोकित इत्युच्यते / स एव परमेश्वरोऽचिन्त्यशक्तियुक्तया परमार्थकरणेकतानतया चास्य जीवस्य मोक्षमार्गप्रवृत्तेः परमो हेतुरित्युक्तं भवति। समस्तजगदनुग्रहप्रवहणं हि भावतो निष्कलमपि रूपमिति परिभावनौयं केवलं तथापि तज्जौवभव्यतां कर्मकालखभावनियत्यादिकं च सहकारिकारणकलापमवेक्ष्य जगदनुग्रहे व्याप्रियते तेन न यौगपद्येन समस्तप्राणिनां संसारोत्तार इत्यालोचनीयमेतदागमानुमारेणेति / तस्माद्भवत्येव भाविकल्याणस्य भद्रकभावे वर्तमानस्यास्य जीवस्य भगवदवलोकना / यथा च तां महाराजदृष्टिं तत्र रोरे निपतन्तौं धर्मबोधकराभिधानो महानसनियुक्तो निरौचितवानि For Private And Personal Use Only