________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / त्युक्त तथा परमेश्वरावलोकनां मजीवे भवतौं धर्मबोधकरणशौलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गापदेशकः सूरिः स निरीक्षते स्म / तथा हि / सयानबलेन विमलीभूतात्मानःपरहितैकनिरतचित्ता भगवन्तो ये योगिनः पश्यन्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनाया योग्यतां पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति तिष्ठन्तु विशिष्टज्ञाना इति / ये च मम मदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः स्वसंवेदनसंसिद्धमेतदस्माकमिति / यत्पुनस्तेन धर्मबोधकरण माकूतमानसेन मता तदनन्तरं चिन्तितं यदुत किमेतदाश्चर्य मयाधुना दृश्यते यतोऽयं सुस्थितो महानरेन्द्रो पस्योपरि विशेषेण दृष्टिं पातयति म पुरुषस्त्रिभुवनस्यापि द्रागेव प्रभुः सञ्जायत इति सुप्रसिद्धमेतत् / अयं पुनर्योऽधुनास्य राज्ञो दृष्टे!चरचारितामनुभवत्रुपक्षच्यते स द्रमको दैन्योपहतो रोगग्रस्तदेहोऽलक्ष्मीभाजनभूतो मोहोपहतात्मातिबीभत्सदर्शनो जगदुद्वेगहेतुस्तत्कथं समस्तदोषराशेरस्य परमेश्वरदृष्टिपातेन मार्दू सम्बन्धः पौर्वापर्यण विचार्यमाणो न युज्यते न कदाचनापि दौर्घतरदौर्गत्यभाजिनां गेहेषु अनर्घयरत्नदृष्टयो निपतितमुत्महन्ते / तत्कथमेतदिति विस्मयातिरेकाकुलं चेतः / तदिदं सर्वमत्रापि जीवविषयं मद्धर्माचार्यचेतसि वर्तमानं योजनीयम् / तथा हि / यदाऽयं जौवो नितरां गुरुकर्मतया प्रागवस्थायां समाचरति सम For Private And Personal Use Only