________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 . उपमितिभवप्रयचा कथा / क्वचिदवमरे समवसरणदर्शनेन वा जिनस्नात्रविलोकनेन वा वौतरागबिम्बनिरीक्षणेन वा शान्ततपखिजनसाचात्करणेन वा सुश्रावकसङ्गतेन वा तदनुष्ठानप्रतिभासेन वा द्रावितमिथ्यात्वतया मृदूभूतभावस्य तथा युपपद्यते / तदा तद्विचारणास्य प्रौतिः / शोचति प्रागविचारकमात्मानम् / ग्टह्णाति मार्गादेशकम् / बन्धुबुद्ध्या बहु मन्यते सद्धर्मनिरतिचित्तांश्चान्यलोकान् सद्भावमयेति तदियता प्रपञ्चेन लघुकर्मणः सन्मार्गाभ्यर्णवर्त्तिनोऽभिन्नकर्मग्रन्थैभित्रकर्मग्रन्थैर्वा पुरस्कृतसम्यग्दर्शनस्य कियन्तमपि कालं भद्रकभावे वर्तमानस्यास्य जौवस्य यो व्यतिकरो भवति स व्यावर्णितः / तदनन्तरमिदानों सकलकल्याणाक्षेपकारणभूतां परमेश्वरावलोकनां प्राप्नुवतोऽस्य यः प्रपद्यते तत्र योऽसौ कथानकोको रोरो सन्धचेतनो यावदित्यं विप्रकोणे चिन्तयति तावद् वृत्तान्तान्तरमपरं महाराजावलोकनक्षणमापतितम् / तथेहापि यदायं जीवः सञ्चातखकर्मालाघवतया सन्मार्गाभिमुखो भट्रकभावे वर्त्तते तदाऽस्य योग्यतया परमात्मावलोकनक्षणोऽयमपरो वृत्तान्तः संपत्स्यते / तत्र / योऽसौ सुन्दरे प्रामादशिखरे सप्तमे भूमिकातले निविष्टमूर्तिरधस्तादर्तमानं तददृष्टमूलपर्यन्तं नगरं समस्तं समस्तव्यापारकलापोपेतं सकलकालं समन्तानिरीक्ष्यमाणस्तस्मादहिरपि मर्वचाप्रतिहतदर्शनशक्रिः सततानन्दो लीलया ललमानो महानरेन्द्रो दर्शितः / स इह निष्कलावस्थायां वर्तमानः परमात्मा भगवान् सर्वज्ञो विज्ञेयः / स एव यतो मर्त्यलोकापेक्षया या उपर्युपरिस्थायिन्यो भूमिकाकल्पाः सप्तरज्जवः तदात्मको यो लोकप्रासादस्त For Private And Personal Use Only