SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। प्रत्यासन्नभविष्यद्रस्य कथञ्चिदुपलभ्य सर्वज्ञशासनमविदिततद्गुणविशेषस्यापि मार्गानुसारितया भवत्येवंविधोऽभिप्रायः। यदुतात्यद्भुतमिदमहद्दर्शनं यतोऽच तिष्ठन्ति ये लोकास्ते सर्वेऽपि सुहृद व वान्धवा वैकप्रयोजना व समर्पितहृदया इवैकात्मका दव परस्परं वर्त्तन्ते। तथामृतप्ता दव निरुदेगा इव निरौत्सुक्या इव सोत्साहा व परिपूर्णमनोरथा दव समस्तजन्तुसंघातहितोद्यतचेतसच सकलकालं दृश्यन्ते / तस्मात्मन्दरमिदमद्य मया विज्ञातं न पूर्व विमर्शाभावात् / अन्यच्चायं जीवोऽनन्तवाराग्रन्थिप्रदेशं थावत्प्राप्तो न चाऽनेन तझेदद्वारेण क्वचिदपि सर्वज्ञशासनमवलोकितं यतो रागद्वेषमोहादिभिः क्रूरदारपालकल्यै यो भूयो निरस्त इत्येतावतांगेनेदमुपदर्शितं न पुनस्तस्यामवस्थायाममुं विभागमद्याप्ययं जीवो जानौते चिन्तयति वा / यथा च। तस्य कथानकोक्तस्य पर्यातोचनपरायणवृत्तेः मतः पुनरिदं परिस्फुरितं यदुत येन मया पूर्वमिदं नयनानन्दकारि राजसदनं न दृष्टं न वास्य दर्शनार्थं कश्चिदुपायः प्राविहितः मोऽहं मत्यं निष्पुण्यक एव / कीदृशं राजमन्दिरमिति जिज्ञासामात्रमपि ममाऽधन्यस्य कदाचिदपि पूर्व नामौत् / थेन चानेन महात्मना वकर्माविवरद्वारपालेन कपापरीतचेतमा भाग्यकलाविकलस्यापि ममेदं दर्शितं मोऽयं मे परमबन्धुभूतो वर्त्तते / एते च धन्यतमा जना येऽच राजमन्दिरे मदा निःशेषद्वन्दरहिताः प्रमुदितचेतसोऽवतिष्ठन्ते तदेतदपि समस्तमत्र जौवे योजनीयम् / तथा हि / शुभध्यानविशुध्यमानाध्यवसायस्यास्यापि जीवस्य विवर्त्तते चेतमीदं सर्व सर्वजदर्शनगोचरं For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy