________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / दारुणपरिणमा इत्यभिधीयन्ते। येषां तु संमारोदर विवरवर्त्तिनां जन्तुमंघातानामवण्यतया ये शब्दादिविषयोपभोगाः सुन्दरपरिणामास्ते नियमतो भगवच्छासनमन्दिरादुकन्यायेन न बहि ता वर्त्तन्ते। तस्मादन्यैरपि प्रेक्षापूर्वकारिभिराक्षेपेण मोक्षप्रापकेऽत्र भगवन्मन्दिरे भावतः स्थेयम् / अत्र स्थितानामनुषङ्गत एव तेऽपि सुन्दरतया भोगादयः संपद्यन्ते न तेषामपि सम्पादकोऽन्यो हेतुरित्युक्तं भवति / अत एव चेदं परमेश्वरदर्शनमदनमप्रतिपातिसुखपरम्पराकारणतया सततोत्सवमभिधीयते / तदेवं यथा यावधिशेषणकलापयुक्तं च तद्राजमन्दिरं तेन कथानकोतनावलोकितं तथा तावद्विशेषणकलापोपेतमेवानेनापिजीवेनेदं सर्वजशासनमदनमवलोक्येति स्थितम् / यथा च स कथानकोकः मततानन्दं तद्राजभवनमुपलभ्य किमेतदिति विस्मितश्चिन्त यति न चासौ सोन्माइतथा तद्विशेषगुणांस्तत्वतो जानातीत्युतम् / तथायमपि जौवः मर्वजशामनं सञ्जातकर्मविवरः कथञ्चिदुपलभ्य किमेतदिति जिज्ञासते न चायं मिथ्यात्वांशेरुन्मादकल्पैरनुवर्त्तमानैस्तस्यामवस्थायामस्य जिनमतस्येमे विशेषगुणास्तांस्तत्वतो जानौते / यथा च तस्य कथानकोतस्य तात्पर्यवशेन लब्धचेतमः सतो हृदयाकूतैः परिस्फुरितं घदुत यदेतद्राजमन्दिरं सकलाश्चर्यधामास्य खकर्मविवरद्वारपालस्य प्रसादेन मयाधुना दृश्यते / लग्नं नूनमेतन मया कदाचित्पूर्व दृष्टम्। प्राप्तोऽहमस्य द्वारदेशे बहुशः पूर्व केवलं मम मन्दभाग्यतया येऽन्ये द्वारपालाः पापप्रकृतयस्तत्राभूवंस्तैरहं प्राप्तः प्राप्तः कदर्थयित्वा निआंटित इति / तदेतत्सर्वं जौवेऽपि समानम् / तथा हि / भव्यस्य For Private And Personal Use Only