________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / विबुधाधारभूतस्याम्य निरुपचरितशब्दादिविषयोपभोगविमईसुन्दरता न दुरुपपादा / तदर्णनेन चैतालक्षणीयं यदुत भोगास्तावत्युएयोदयेन संपद्यन्ते किन्तु तदेव पुण्यं द्विविधं पापानुबन्धि पुण्यानुबन्धि च। तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाद्युपभोगास्त एव सुसंस्कृतमनोहरपथ्यान्नवत्सुन्दरविपाकतया निरुपचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते / ते हि भुज्यमानाः स्फीततरमाशयं संपादयन्ति ततशोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्ध विधत्ते / ततशासौ तान् भुञ्जानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणु मञ्चयं शिथिलयन्ति पुनश्चाभिनवं शुभतरविपाकं प्रागपुण्यभारमात्मन्याधत्ते स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परयोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्दर विपाकास्तेऽभिधीयन्ते / ये तु पापानुबन्धिपुण्योदयजनिताः शब्दादिविषयानुभवास्ते सद्योघातिविषोपदिग्धमोदकवद्दारुणपरिणामतया तत्वतो भोगा एव नोच्यन्ते यतरते मरुमरीचिकाजलकल्लोला व तदुपभोगार्थ धावतः पुरुषस्य विफलश्रमसम्पादनेन गाढतरं हृष्णामभिवर्द्धयन्ति न तु संपद्यन्ते / कथञ्चित्सम्प्राप्ता अपि ते भुज्यमानाः क्लिष्टमाशयं जनयन्ति / ततश्च / तुच्छाभिप्रायोऽसौ पुरुषोऽन्धीभूतबुद्धिस्तेषु नितरां प्रतिबन्धं विधत्ते / ततस्तान् कतिपयदिवमभाविनो भुञानस्तत्सम्पादकं प्रागुपनिबद्धं पुण्यलवं व्यवकलयति / पुनश्चोदयगुरुतरपापभरमात्मन्याधत्ते / ततश्च तेनोदेयप्राप्तेनानन्तदुःखजलचराकुलं संसारसागरमनन्तकालं स जीवः परावर्त्तते / तेन ते पापानुबन्धिपुण्यसम्पाद्याः शब्दादयो For Private And Personal Use Only