________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रवेशनप्रवण: स्वस्थात्मौयस्य कर्मणो विवरो विच्छेदः स्वकर्मविवरः म एव यथार्थाभिधानो द्वारपालो भवितुमर्हति / अन्येऽपि रागदेषमोहादयस्तत्र द्वारपाला विद्यन्ते केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः / तथा हामन्तवाराः प्राप्तः प्राप्नोऽयं जौवस्तैर्निराक्रियते / यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्येनं तथापि तैः प्रवेशिता न परमार्थतः प्रवेशितो भवति रागद्वेषमोहाचाकुलितचित्ता यद्यपि पतिश्रावकादिचिहाः कचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद्वहि ता द्रष्टव्या इत्युक्तं भवति / ततश्चायं जौवस्तेन स्वकमविवरद्वारपालेन तावती भुवं प्राप्तो ग्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते / यथा च तेन कथानकोकेन तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्यविराजनमनाथं सुभटसंघाताकोणे विलमबिलासनौसाथै निरुपचरितशब्दादिविशयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं तथानेनापि जीवेन वज्रवदुर्भदोऽभिन्नपूर्वश्च संसारे य: क्लिष्टकर्मग्रन्थिस्त दद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविप्रेषषामेव मकलमवलोक्यते / तथा हि / दृश्यन्तेऽत्र मौनौन्द्रे प्रवचनेऽपास्ताज्ञानतम:पटनप्रसरा विविधरत्ननिकराकारधारका विलमदमस्तालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः / तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्गवशरीरशोभनतया मनोहरमणिरचितविभूषणविशदाकारतां दधानाः खल्वामर्शोषध्यादयो मान िविशेषाः। तथा कुर्वन्तिसुजनहृदयाहेपमत्र जिनमतेऽतिसुन्दरतया विचित्र For Private And Personal Use Only