________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यथा च तस्य भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लंधित इत्युक्तं तथा जीवभवभ्रमणकालकलनमपि न प्रतीतिगोचरचारितामनुभवति निरादितया तत्परिच्छेदस्य कर्तुमशतरिति / तदेवमत्र संसारनगरोदरे मदीयजौवरोरोऽयं कुविकल्पकुतर्ककुतीर्थिकलक्षणैर्दुर्दान्तडिम्भसंघातैस्तत्वाभिमुख्यरूपे शरौरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताडयमाने महामोहादिरागबातग्रस्तशरीरस्तदशेन नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत एव विवेकविमलौभूतचेतमां कपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्वावबोधविप्रकृष्टोऽत एव प्रायः सर्वजौवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदनदुराशापाशवशौकतः कथंचित्तल्नेशलाभतुष्टोऽपि तेनालप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तद्वारेण व ग्टहौतनिबिडगुरुतराष्टप्रकारकर्मभाररूपानिष्ठितापथ्यपाथेयस्तदुपभोगद्वारेण विवर्द्धमानरागादिरोगगणपौडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तमच्चारित्ररूपपरमानास्वादोऽरघट्टघटीयन्त्रन्यायेनानन्तपुङलपरावर्तनसमस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति / अधुना पुनरस्य यत्सम्पन्न तदभिधीयते / इह च। त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्यरत्र मर्वत्राऽपि कथाप्रबन्धे निर्देश: मङ्गतो द्रष्टव्यः। यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शवविदाम् / यथा योऽयं मार्गो गन्तव्यः प्रापाटलिपुत्रात् तत्र कूपोऽभूदभवञ्च बभूव भविष्यति भवितेति वा एते सर्वपि कालनिर्देया एकस्मिन्नपि कूपाख्ये For Private And Personal Use Only