SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 65 यलक्षणमजीर्ण सम्पद्यते / ततश्च / यदा यदुदयद्वारेण जौर्यति तदा नारकतिर्यनरामरभवश्रमणलक्षणां वातविषूचिकां विधायेनं जौवं नितरां तत्कदर्थयति / यथा च तत्कदलं तस्य सर्वरोगाणां निदानं पूर्वोत्पनरोगाणां चाभिवृद्धिकारणामत्यर्थमभिहितं तथेदमपि रागग्रस्तचित्तेनानेन जीवेनोपभुज्यमानं विषयादिकं महामोहादिलक्षणानां प्रागुपवर्णितानां समस्तरोगाणां भविष्यतां कारणं पूर्वनिवर्णितानां पुनर भिवृद्धिहेतुभूतं वर्तते / यथा च स रोरस्तदेव कुभोजनं चारु मन्यते सुखादभोजनाखादं तु खनान्नेऽपि वराको नोपलभत इत्युक्रम् / तथायमपि जीवो महामोहग्रस्तचेतोवृत्तितया यदिदमशेषदोषराशिदूषितमुपवर्णित स्थित्या विषयधनादिकं तदेवातिसुन्दरमात्महितञ्च चेतमि कल्पयति यत्पुनः पारमार्थिक स्वाधौननिरतिशयानन्दसन्दोहदायकं महाकल्याणभूतसच्चारित्ररूपं परमान्नं तदयं वराको महामोहनिद्रातिरोहितसद्विवेकलोचनयुगलो न कदाचिदामादयति / तथा हि यद्ययमनादौ भवभ्रमणे पूर्वमेव तत् क्वचिदलस्यत ततोऽशेषलेशराशिच्छेदलक्षणमोक्षावाप्तिनयन्तं कालं यावत्संसारगहने पर्यटिव्यततश्चायमद्यापि वंभ्रमी ति। ततो नानेन मदौयजीवेन सच्चरणरूपं मनोजनं प्रागवानमिति निश्चीयते / यत्पुनरभ्यधायि / यथा तददृष्टमूलपर्यन्तं नगरमुच्चावचेषु गेहेषु चिकचतुष्कचत्वरादिषु नानारूपासु च रथ्यास पर्यटतोऽनवरतमश्रान्तचेतसाऽनेन रोरेणानन्तशः परावर्तितमिति। तदपि सर्वमत्र ममानं विज्ञेयं यतोऽमुनापि जौवेनानादितया कालस्य भ्रमतानन्तपुद्गलपरावर्ताः पर्यन्तं नौताः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy