________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / जौवस्थानेन धनविषयकलत्रादिना कदनप्रायेण पूर्यमाणस्यापि नाभिलाषविच्छेदः किन्तर्हि गाढतरमभिबर्द्धते तत्तर्षः / तथाहि यदि कथञ्चिविणशतं सम्पद्यते ततः सहस्रमभिवाञ्छति / अथ तदपि मञ्जायते ततो लक्षमाकांक्षति तत्मम्पत्तावपि कोटीमभिलषति तल्लाभे राज्यं प्रार्थयति / अथ राजा जायते ततश्चक्रवर्तीत्वं मृगयते तत्सम्भवेऽपि विबुधत्वमन्विच्छति / अथ देवत्वमप्यास्कन्देत्ततः शक्रत्वमन्वेषयते। अथेन्द्रतामपि लभते ततोप्युत्तरोत्तरकल्पाधिपतित्वपिपामापर्यामितचेतमो नास्येवास्य जीवस्य मनोरथपरिपूर्तिः / यथा हि गाढयौमे ममन्ताद्दवदाहतापि तशरीरस्य पिपासाभिभूतचेतनस्य मूर्च्छया पतितस्य कस्यचित्यथिकस्य तत्रैव स्वप्नदर्शने सुबहन्यपि प्रबलकल्लोलमालाकुलानि महाजलाशयकदम्बकानि पीयमानान्यपि न तर्षापकर्षकं भनागपि सम्पादयन्ति / तथास्थापि जीवस्य धनविषया दौनि / तथाह्यनादौ संसारे विपरिवर्त्तमानेनानन्तशःप्राप्तपूर्वादेव भवेषु निरुपचरितशब्दाद्युपभोगाः प्रामादितान्यनन्तानर्धेयरत्नकूटानि विलमितं खण्डितरतिविभ्रमैः मह विलासिनौसाथैः क्रीडितं त्रिभुवनातिशायिनीभिर्नानाक्रौडाभिः / तथाप्ययं जौवो महाबुभुक्षाहामोदर व शेषदिनभुक्तवृत्तान्तं न किञ्चिज्जानाति ! केवलं तदभिलाषेण शुष्यतीति / यत्ततं यदुत तत्कदनं तेन द्रमकेन लौल्येन भुक्तं जौर्यति जौर्यमाणं पुनर्वातविचिकां विधाय तं रोरं पौडयतौति / तदेवं योजनौयम् / यदा रागादिपरीतचित्तोऽयं नौवो धनविषयकलत्रादिकं कदन्नकल्यं खौकरोति तदास्य कर्मसञ्च For Private And Personal Use Only