________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / ग्रहोऽपौशिल्यक्तिद्यमानमानसः खल्वेष जौवस्तस्याः परवीक्षणरक्षणाक्षणिकः मन्न नि:मरति गेहात् / न खपिति रजन्यां त्यजति मातापितरौ शिथिल्लयति बन्धुवर्गान् न ददाति परमसुझ्दोऽपि स्वग्टहे ढौ कम् / अवधीरयति धर्मकार्याणि न गणयति लोकवचनीयतां केवलं तस्या एव मुखमनवरतमौक्षमाणस्तामेव च परमाममूर्त्तिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते / तस्य च यदेव मा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्मा चिन्तयति तदेवेशिताकारैर्विज्ञायासौ सम्पादनाया, मन्यते / एवञ्चाकलयति मोहविडम्बितेन मनसा / यदुतेयं ममानुरक्ता हितकारिणौ न चान्येदृशी मौन्ददार्यमौभाग्यादिगुणकलापकलिता जगति विद्यते / अथ कदाचित्तां मातेति भगिनौति देवतेत्यपि मन्यमानः परो वौच्यते ततोऽसौ मोहात् क्रध्यतीव विकलौभवतीव मूर्छतीव म्रियत व किं करोमौति न जानौते / श्रथ सा वियुज्यते म्रियते वा ततोऽसावप्याक्रन्दति परिदेवते म्रियते वा अथ सा कथञ्चिद्दुःशीलतया परपुरुषचा रिणौ स्यात् परपुरुषा वा बलात्तां समाक्रम्य ग्टलीयुः / ततोऽसौ महामोहविकलो यावनीवं हृदयदाहेन जीर्यते प्राणैर्वा वियुज्यते दुःखासिकातिरेकेणेति / तदैवमेकैकवस्तुप्रतिबन्धबद्धहृदयोऽयं जीवो दुःखपरम्परामामादयति / तथापि / विपर्यस्ततया तद्रक्षणप्रवणमनाः सर्वथा शङ्कते ममेदमयं हरिष्यतीति। यथा च तस्य रोरस्य तेन कदनेनोदरपूरपूरितस्यापि न टप्तिः संपद्यते / प्रत्युत प्रतिक्षणं सुतरां वुभुक्षाभिवर्धत इत्युक्तम् / तथास्थापि For Private And Personal Use Only