________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तस्करेभ्यः चस्थति नरपतिभ्यः कम्पते भयेन दायादेभ्यः उदिजते याचकेभ्यः किं बहुनात्र जल्पितेनात्यन्तनि:स्पहमुनिपुङ्गवेभ्योऽपि शङ्कते / यदुतैते महता वचनरचनाटोपेन मां प्रतार्य नूनमेतद्ग्रहोतुमिच्छन्ति तथाविधगाढमूच्छाविषाभिभूतचित्तश्चिन्तयत्येवं हन्त धक्ष्यते ममैतट्रविणजातं चित्रभानुना लावयिष्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः श्रतः सुरक्षितं करोमि ततोऽसहायः शोषजनाविश्रम्भितया राबावुत्थाय खनत्यतिदूरं भूतलं निधत्ते तत्तत्र निभृतसञ्चारः पुनः पूरयित्वा गत्तं कुरुते समं भूतलं विकिरति तस्योपरि धलिकचवरादिकं सम्पादयति किलालक्ष्यं खाकूतेन मा पुनर्न ज्ञास्यामि खदेशमिति विधत्ते विविधानि चिहानि प्रयोजनान्तरेण तद्देशेन मञ्चरन्तमपरं जनं मुहुर्मुहुर्निभालयति कथञ्चित्तद्देशे यान्तौं तदृष्टिं शाइते श्रा ज्ञातमेतेनातो मूर्छादन्दह्यमानमानमो न लभते रात्रौ निद्रां पुनरुत्थाय तत्पदेशात्तत्खनति निधत्ते च प्रदेशान्तरं निरीक्षते पुनःपुनर्दिगन्तरेषु सभयं निक्षिपश्चक्षुः / यदुत मां कश्चिट्टच्यतौति व्यापारान्तरमपि स केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति। अथ कथञ्चित्तथाविधयत्नगतैरपि तेन रक्ष्यमाणमपरो लक्षयेत् ग्रहीयाच्च ततोऽमावकाण्डवज्रपातनिर्दलितशरीर व हा तात हा मातीं भ्रातरिति विक्लवमाराध्यमानः सकलविवेकिलोकं करुणापरौतचित्ततां प्रापयति / अतिमूर्छाव्याघ्राघ्रातचेतनो म्रियते वा। तदिदं धनलवप्रतिबद्धचेतोतौनां विलसितमुपदर्शितम् / तथा ग्रहिणीप्रतिबन्धग्रहग्टहीतवि For Private And Personal Use Only