________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / तदर्थ बंभ्रम्यमाण: प्रागविहितपुण्यशन्यः समभिलषितार्थस्य तिलतुषत्रिभागमात्रमपि प्राप्नोति केवलं स्वचित्तसन्तापमातरौद्रध्याने गुरुतरकर्मभारं तवारेण दुर्गतिं चात्मनोऽभिवर्द्धयतौति यदि पुनः कथञ्चित्पूर्वविहितपुण्यलवः स्यात् ततोऽयं जीवस्तदुदयेन धनसहस्रादिकं वा अभिमतभायां वा खशरीरसन्दर्य वा विनौतपरिजनं वा धान्यसञ्चयं वा कतिचिद्ग्रामप्रभुत्वं वा राज्यादिकं वा प्राप्नुयादपि। ततश्च / यथाऽसौ द्रमकः कदनलेशमात्रलाभातुष्टस्तथायमपि जीवो माद्यति हृदये मदसन्निपातग्रस्तहृदयश्च नाकर्णयति विज्ञापनानि न पश्यति शेषलोकं न नामयति ग्रीवां न भाषते प्रगुणवचनैः अकाण्ड एव निमौलयति चक्षुषो अपमानयति गुरुसंहतिमपि अतोऽयमेवं विधतुच्छाभिप्रायहतस्वरूपो जीवो जानादिरत्नभरपरिपूर्णतया परमेश्वराणां भगवतां मुनिपुङ्गवानां क्षुद्रद्रमकेभ्योप्यधमतमः कथं न प्रतिभामते / यदा पशुभावे नरकेषु वा वर्ततेऽयं जौवस्तदा विशेषतो द्रमकोपमामतिलंघयति यतो विवेकधनानां महर्षीणां य एते किल शक्रादयो देवा महर्द्धयो महाद्युतयो निरुपचरितशहादिविषयोपभोगभाजनं द्राघौयःस्थितिकास्तेऽपि यदि सम्यकदर्शनरत्नविकलाः स्युस्तदा महादारित्र्यभराक्रान्तमूर्तयो विद्युल्लताविलसितचटुलजीविताच प्रतिभामन्ते किं पुनः शेषाः मंमारोदरविवरवर्त्तिनो जन्तव इति / यथा चामौ द्रमकोऽवज्ञया जनैर्दत्तं तत्कदन्नं भुञ्जानः शक्रादपि शकते यदतायं ममैतदद्दालयिष्यति। तथायमपि जौवो महामोहोपहतस्तट्रविणकलत्रादिक कथञ्चित्तावता लेशजालेनोपार्जितं यदानुभवति तदा विभेति For Private And Personal Use Only