________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 56 क्षुद्रग्रामाणां लाभं चक्रवर्तित्वं मन्यते / क्वचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति / क्वचिज्जारकुलटामप्यमरसुन्दरौं कल्पयति। कचिद्देशविरूपमप्यात्मानं मकरध्वजं चिन्तयति / क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति / क्वचिट्ट विपास्य त्रिचतुराणां महस्राणां शतानां विंशतीनां रूपकाणामपि लाभ कोटीश्वरत्वमवगच्छति / क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतल्या लक्षयति / क्वचित्वकुटुम्बभरणमपि महाराज्यमवबुध्यते / क्वचिदुष्यरोदरदरौपूर्णमपि महोत्मवाकारं जानौते / कचिभिक्षावाप्तिमपि जौवितावाप्तिं निश्चिनोति / क्वचिदन्यं शब्दादिविषयोपभोगनिरतमुद्दौक्ष्य राजादिकं शक्रोऽयं देवोऽयं पन्द्योऽयं पुण्यभागयं महात्मायं पुरुषो यदि ममाप्येवं सम्पद्यन्ते विषयास्ततोऽहमप्येवं वितमामौति चिन्तयन्परिताम्यति / तथाविधाकूतविडम्बितच तदर्थङ्करोति भूभुजां सेवा पर्युपास्ते तान् सर्वदा दर्शयति विनयं वदत्त्यनुकूलं शोकाक्रान्तोऽपि हसति तेषु हमत्सु सञ्जातजातखपुत्रहर्षप्रकर्षाऽपि रोदिति तेषु रुदत्सु निजशवनपि स्तौति तदभिमतान् स्वपरमसुहृदोऽपि निन्दति तद्दिषो धावति पुरतो रात्रिंदिवं मईयति खिन्नदेहोऽपि तच्चरणान् हालयत्यशचिस्थानानि विधत्ते तदचनात्मर्वजघन्यकर्माणि प्रविशति कृतान्तवदनकुहर दुव रणमुखे ममपयति करवाला दिघातानामात्महृदयं वियते धनकामोऽपूर्णकाम एव वराकः। तथा प्रारभते कृषौं खिद्यते सर्वमहोरात्रं वाहयति हलं अनुभवत्यटव्यां पशुभावं विमईयति नानाप्रकारान् For Private And Personal Use Only