SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कनकविचित्रभकिमण्डितराजतक्रीडापर्वतककलितानि दीर्घिकागुञालिकायन्त्रवा पिकाद्यनेकविधजलाशयमनोहराणि बकुलपुबागनागाशोकचम्पकप्रभृतिविविधविटपिजातिविस्ताराणि पञ्चवर्णगन्धबन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुहचारूणि भ्रमभङ्गझङ्कारमारतारोपगौतानि प्रासादसमीपवर्तीनि लोलोपवनानि प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनमौन्दर्या रथसङ्घाताः / हर्षयिष्यन्ति मामपहस्तितसुराधिपहरितमाहात्म्यानां वरकरि कोटयः / तोषयिष्यन्ति मामधरितविबुधपतिहरिरया हयकोटिकोटयः / समुल्लासयिष्यन्ति मे मनसि प्रमदातिरेक पुरतो धावन्तोऽनुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्त्यन्तसंहतासङ्ख्यातीता: पदातिसङ्घाताः / रचयिष्यन्ति मे प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् / भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः / तन्त्रयिष्यन्ति मे ममस्त कार्याणि प्रज्ञावज्ञातसुरमन्त्रिणोऽमात्यमहत्तमाः / तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् / पुनश्च चिन्तयति / ततोऽहमतिमद्धतया निश्चिन्ततया च परिपूर्णसमग्रसामग्रीकः करिष्यामि विधिना कुटौप्रावेशिक रमायनं ततस्तदुपयोगात् संपत्स्यते मे वलोपलितखालित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरम् / तदिदं लब्धभिक्षस्यैकान्तगमनमनोरथसममवगन्तव्यम् / भूयश्च मन्यते। ततोऽहमतिप्रमुदितचेता गम्भौररतिसागरावगाढस्तेन ललनाकलापेन साढू ललमानः खल्वेवं करिष्ये। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy