________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 उपमितिभवप्रपश्चा कथा। चन्द्रोहमिकाश्चान्ये तथैवोदकम्मृत्तिकाः // एकैकस्थालिका मंखाः पक्षापक्षा गजध्वजाः / उलूकपक्षा मात्रादिभकाः कण्टकमर्दकाः / / कियन्तो वात्र गद्यन्ते नानाभिप्रायसंस्थिताः / पाषण्डिनो भवन्त्येते भो नानाविधनामकाः // देवैर्वादैस्तथा वेषैः कल्पैर्मोचविशुद्धिभिः / वृत्तिभिश्च भवन्येते भिन्नरूपाः परस्परम् // तथा हि। रुनेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः / निजाकूतवशादेतैरिष्टादेवाः पृथक् पृथक् // ईश्वरो नियतिः कर्म स्वभावः काल एव वा। जगत्कर्तेति वादोऽयं सर्वेषां भिन्नरूपकः / त्रिदण्डकुण्डिकामुण्डवल्कचौवरभेदतः / वेषः परस्परं भिवः स्फुट एवोपलक्ष्यते // कल्पोऽपि भक्ष्याभक्ष्यादिलक्षण: खधिया किल / अन्योन्यं भिन्न एवैषां तौर्थिनां भद्र वर्तते // विधातदोपरूपाभः सुखदुःखविवर्जितः / एषां पाषण्डिनां भद्र मोक्षो भित्रः परस्परम् // निजाकूतवशेनैव विशुद्धिरपि तौर्थिकैः / श्रमौभिर्भद्र सत्त्वानां भिन्नरूपा निवेदिता // कन्दमूलफलाहाराः केचिद्धान्याशिनोऽपरे / वृत्तितोऽपि विभिद्यन्ते ततस्ते भद्र तौर्थिकाः // For Private And Personal Use Only