________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 547 ये दृश्यन्ते विमार्गस्था वहिरङ्गजने मदा / भद्र पाषण्डिनः केचित्तेषामेषेव कारणम् // ते चामी नामभिर्भद्र वर्ण्यमाना मया स्फुटम् / ज्ञेया देवादिभेदेन विभिन्नाश्च परस्परम् // तद्यथा। शाक्या स्त्रैदण्डिकाः शैवाः गौतमाश्चरकास्तथा। सामानिकाः सामपरा वेदधर्माश्च धार्मिकाः // श्राजौविकास्तथा शुद्धा विद्युद्दन्ताश्च चुचणाः / माहेन्द्राश्चारिका धूमा बद्धवेषाश्च खुंखुकाः // उल्काः पाशुपताः कौलाः काणादाश्चर्मखण्डिकाः / सयोगिनस्तथोलका गोदेहा यज्ञतापमाः // घोषपाशुपताश्चान्ये कन्दच्छेदा दिगम्बराः / कामर्दकाः कालमुखाः पाणिलेहा स्त्रिराशिकाः // कापालिकाः क्रियावादा गोव्रता मृगचारिणः / लोकायताः शङ्खधमाः सिद्धवादाः कुलंतपाः // तापसा गिरिरोहाश्च शुचयो राजपिण्डकाः / संमारमोचकाश्चान्ये सर्वावस्थास्तथा परे // अज्ञानवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः / कुमारव्रतिकाश्चान्ये शरीररिपवस्तथा // उकंदाचक्रवालाश्च त्रपवो हस्तितापमाः / चित्तदेवा बिलावासास्तथा मैथुनचारिणः // अम्बरा असिधाराश्च तथा माठरपुत्रकाः / For Private And Personal Use Only