________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 542 उपमितिभवप्रपञ्चा कथा / मण्डपं चित्तविक्षेपं हृष्णानानौं च वेदिकां / गाढं ममारयत्येष विपर्यासं च विष्टरम् // समारितानि चानेन यदेतानि वहिर्जने / कुर्वन्ति तदहं वच्मि समाकर्णयं साम्प्रतम् // यदुन्मत्तग्रहग्रस्तमविभो भद्र सर्वदा / जनो दोलायतेऽत्यर्थ धर्मबुद्ध्या वराककः // कथम्। करोति भैरवे पातं याति मूढ़ो महापथम् / गौतेन म्रियते माघे कुर्वाणो जलगाहनम् // पञ्चाग्नितपने रको दह्यते तौबवहिना / गवाश्वत्थादिवन्दारुरास्फोटयति मस्तकम् // कुमारोब्राह्मणादौनामतिदानेन निर्धनः / महते दुःखसङ्घातं श्राद्धः पूतमलः किल / / परित्यज्य धनं गेहं बन्धुवर्ग च दुःखितः / अटाय्यते विदेशेषु तीर्थयात्राभिलाषुकः / पिनतर्पणकार्यण देवाराधनकाम्यया / निपातयति भूतानि विधत्ते च धनव्ययम् // मांसमद्यैर्धनैः खाद्यैर्भक्रिनिर्भरमानमः / तप्तायोगोलकाकारं ततस्तर्पयते जनम् // हास्यं विवेकिलोकस्य धर्मबुड्या विनाटितः / इत्येवमादिकं धर्म करोत्येष पृथगजने // न लक्षयति शून्यात्मा भूतमर्दै सुदारुणम् / For Private And Personal Use Only