________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 543 नात्मनो दुःखमातं हास्यं नापि धनव्ययम् // रागद्वेषादिजातस्य स्वपापस्य विरुद्धये / एवं च घटते लोकस्तत्त्वमार्गाव हिष्कृतः // धर्मोपायमजानानः कुरुते जीवमर्दनम् / प्राप्नोति करभं नैव रासभं दामयत्ययम् // तिला भस्मौकता वह्नौ दग्ध पेयं तवेत्यहो / धनमुद्दालितं धूर्जनस्तु इदि भावितः // न च मन्मार्गवकारः पूत्कुर्वन्तोऽप्यनेकधा / लोकेनानेन गण्यन्त प्रोच्यन्ते च विमूढ़काः // तदिदं भद्र निःशेषं मिथ्यादर्शनसंज्ञिना / अमुना संस्कृतस्यास्य मण्डपस्य विजम्भितम् // यत्पुनर्मियमाणोऽपि लोकोऽयं नैव मुञ्चति / भद्र कामार्थलाम्पश्यं नानाकारैविडम्बनैः // कथम् / अप्सरोथ करोत्येष नन्दाकुण्डप्रवेशनम् / पत्युः मङ्गमनाथं च दहत्यात्मानमग्निना // खर्गाथं भूतिकामेन पुत्रखजनकाम्यया / अग्निहोत्राणि यागांश्च कुरुतेऽन्यच्च तादृशम् // दानं ददाति चाशास्ते भूयादेतन्मृतस्य मे / श्राशास्ते क्लेशनिर्मुकं न फलं मोक्षलक्षणम् / / यत्किचित्कुरुते कर्म तन्निदानेन दूषितम् / अर्थकामप्रदं मेऽदः परलोके भविष्यति // For Private And Personal Use Only