________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 541 उदाहनं च कन्यानां जननं पुत्रसंहतेः / निपातनं च शत्रूणां कुदुम्बपरिपालनम् // यदेवमादिकं कर्म घोरसंसार कारणम् / तद्धर्म इति संस्थाप्य दर्शितं भवतारणम् // यः पुनर्ज्ञानचारिचदर्शनायो विमुक्तये / मार्गः मोऽपि मोऽनेन लोपितो लोकवैरिणा // ततश्च भद्र यत्तुभ्यं ममासेन मयोदितम् / वौर्य महत्तमस्यास्य ब्रुवाणेन पुरा यथा // अदेवे देवसङ्कल्पमधर्म धर्ममानिताम् / प्रतत्त्वे तत्वबुद्धिं च करोत्येष जडात्मनाम् // अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् / संमारहेतौ निर्वाणहेतुभावं करोत्ययम् / तदिदं लेशतः सर्व प्रविवेच्य निवेदितम् / विस्तरेण पुनर्वीर्य कोऽस्य वर्णयितुं क्षमः // अन्यच्चायं निजे चित्ते मन्यते भद्र सर्वदा / मदोद्धतः प्रकृत्यैव महामोहमहत्तमः // निक्षिप्तभर एवायं राज्यसर्वखनायकः / महामोहनरेन्द्रेण कृतः सर्वत्र वस्तुनि // एवं च स्थिते / विश्रम्भार्पितचित्ताय मयास्मै हितमुच्चकैः / अन्यव्यापारशून्येन कर्तव्यं ननु सर्वदा // ततश्च / For Private And Personal Use Only