________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 540 उपमितिभवप्रपञ्चा कथा। अन्ये भृतोपमर्दस्य हेतवः शायकेतवः // तानेव ये विजानन्ति निःशङ्काश्च प्रयुञ्जते / न धर्मबाधां मन्यन्ते शठाः पापपरायणाः // त एव गुणिनो धौरास्ते पूज्यास्ते मनखिनः / त एव धौरास्ते लाभमा जिनस्ते मुनीश्वराः // इत्येवं निजवौर्येण वहिरङ्गजनेऽमुना। मिथ्यादर्शनसंज्ञेन भद्र पापा: प्रकाशिताः // ये पुनमन्त्रतन्त्रादिवेदिनोऽप्यतिनि:स्पृहाः / निवृत्ता लोकयात्राया धर्मातिक्रमभौरवः // मूकान्धाः परवृत्तान्ते खगुणभ्यासने रताः / असता निजदेहेऽपि किं पुनःविणादिके // कोपाहंकारलोभायेर्दूरतः परिवर्जिताः / तिष्ठन्ति शान्तव्यापारा निरपेक्षास्तपोधनाः // न दिव्यादिकमाख्यान्ति कुहकादि न कुर्वते / मन्त्रादौन्नानुतिष्ठन्ति निमित्तं न प्रयुञ्जते // लोकोपचारं निःशेषं परित्यज्य यथासुखम् / स्वाध्यायध्यानयोगेषु सक्रचित्ताः सदामते // ते निर्गुणा अलोकज्ञा विमूढा भोगवर्जिताः / अपमानहता दौना ज्ञानहीनाश्च कुर्कुटाः // इत्येवं निजवीर्येण बहिरङ्गजनेऽमुना / ते मिथ्यादर्शनाकेन ख्यापिता भद्र साधवः // तथा / For Private And Personal Use Only