________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 536 तथापि निहते भद्र तदेष जनदारुणः // तथा / ग्रहिणो ललनावाच्यमर्दका भूतघातिनः / असत्यमन्धाः पापिष्ठाः सङ्ग्रहोपग्रहे रताः // तथान्ये पचने नित्यमामकाः पाचनेऽपि च / मद्यपाः परदारादिसे विनो मार्गदूषकाः // तप्तायोगोलकाकाराम्तथापि यतिरूपिणः / ये तेषु कुरुते भद्र पात्रबुद्धिमयं जने // सज्ज्ञानध्यानचारित्रतपोवौर्यपरायणाः / गुणरत्नधना धौरा जङ्गमाः कल्पपादपाः // संसारसागरोत्तारकारिणो दानदायिनाम् / अचिन्त्यवस्तुवोहित्थतल्या ये पारगामिनः // तेषु निर्मलचित्तेषु पुरुषेषु जडात्मनाम् / एषोऽपात्रधियं धत्ते महामहोमहत्तमः // तथा / कौतुकं कुहकं मन्त्रमिन्द्रजालं रमक्रियाम् / निर्विषीकरणं तन्त्रमन्तर्धानं मविस्मयम् // औत्पातमान्तरिक्षं च दिव्यमाङ्गं स्वरं तथा / लक्षणं व्यञ्चनं भौमं निमित्तं च शुभाशुभम् // उच्चाटनं मविद्वेषमायुर्वेदं सजातकम् / ज्योतिषं गणितं चूर्ण योगलेपास्तथाविधाः // ये चान्ये विस्मयकरा विशेषाः पापशास्त्रजाः / For Private And Personal Use Only